नेत्ररञ्जनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नेत्ररञ्जनम्, क्ली, (रज्यतेऽनेनेति । रन्ज + करणे ल्युट् । नेत्रस्य रञ्जनम् ।) कज्जलम् । यथा, -- “एष नौ कथितो धूपः शृणुतां नेत्ररञ्जनम् । येन तुष्यति कामाख्या त्रिपुरा वैष्णवी तथा ॥ सौवीरं जाम्बलं तुत्थं मयूरश्रीकरं तथा । दर्व्विका मेघनीलश्च अञ्जनानि भवन्ति षट् ॥ स्रवद्रूपन्तु सौवीरं जाम्बलं प्रस्तरन्तथा । मयूरश्रीकरं रत्नं मेवनीलन्तु तैजसम् ॥ घृष्ट्वा निगाह्य चैतानि शिलायां तैजसेऽथवा । प्रदद्यात् सर्व्वदेवेभ्यो देवीभ्यश्चापि पुत्त्रक ॥ घृततैलादियोगेन ताम्रादौ दीपवह्निना । यदञ्जनं जायते तु दर्व्विका परिकीर्त्तिता ॥ सर्व्वाभावे तु तद्दद्याद्देवीभ्यो दर्व्विकाञ्जनम् । महामाया जगद्धात्री कामाख्या त्रिपुरा तथा ॥ आप्नुवन्ति महातोषं षड्भिरेभिः सदाञ्जनैः । विधवा नाञ्जनं कुर्य्यान्महामायार्थमुत्तमम् ॥ नादत्ते त्वञ्जनं देवी वैष्णवी विधवाकृतम् । न मृत्पात्रे योजयेत्तु साधको नेत्ररञ्जनम् ॥ न पूजाफलमाप्नोति मृत्पात्रविहिताञ्जनैः ॥ चतुर्व्वर्गप्रदो धूपः कामदं नेत्ररञ्जनम् । तस्माद्द्वयमिदं दद्याद्देवेभ्यो भक्तितो नरः ॥ इति नौ कथितो धूपस्तथोक्तं नेत्ररञ्जनम् ॥” इति कालिकापुराणे ६८ अध्यायः ॥
