सामग्री पर जाएँ

नेत्ररोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नेत्ररोगः, पुं, (नेत्रस्य चक्षुषो रोगः ।) चक्षू- रोगः । तस्य निदानं यथा, -- “उष्णाभितप्तस्य जलप्रवेशाद्- दूरेक्षणात् स्वप्नविपर्य्ययाच्च । स्वेदाद्द्रजोधूमनिषेवणाच्च छर्द्देर्व्विघाताद्बमनातियोगात् ॥ द्रवात्तथान्नान्निशि सेविताच्च विण्मूत्रवातक्रमनिग्रहाच्च । दुग्धोत्पन्नं नवनीतं यष्टीनिम्बस्तिलाश्च संयोज्याः । त्रिफला गुडसंयुक्ता लेपनं कफनेत्रजरोगघ्नम् ॥ शुण्ठी सैन्धवतुल्यं मागधिका ताम्रभाजने घृष्टम् । दध्ना धृतेनाञ्जनकं निहन्ति सर्व्वांश्च नेत्रगदान् ॥ वातपित्तकफदोषसम्भवान् नेत्रयोर्बहुपीडनं क्षणात् । एक एव हरति प्रयोजितः शिशुपल्लवरसः समाक्षिकः ॥” इति हारीते चिकित्सितस्थाने ४४ अध्यायः ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नेत्ररोग¦ पु॰

६ त॰। नयनस्य रोगभेदे तन्निदानादि माधवकरेणोक्तं यथा
“उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात्स्वप्नविपर्य्ययाच्च। स्वेदाद्रजोधूमनिषेवणाच्च छर्देर्विघाता-द्वमनातियोगात्। द्रवात्तथान्नान्निशि सेविताच्च विण्मूत्र-वातक्रमनिग्रहाच्च। प्रसक्तसंरोदनशोककोपाच्छिरो-ऽभिघाताटतिमद्यपानात्। तथा ऋतूनाञ्च विपर्यये-[Page4146-a+ 38] क्लेशाभिघातादतिमैथुनाच्च। वास्पग्रहात् सूक्ष्मनिरी-क्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः। वातात्पित्तात् कफाद्रक्तादभिस्यन्दश्चतुर्विधः। प्रायेण जायतेघोरः सर्वनेत्रामयाकरः”। तस्य सम्प्राप्तिर्यथा
“निस्तो-दनस्तम्भनरोमहर्षसंघर्षपारुष्यशिरोऽभितापाः। विशु-ष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति। दाहप्रपाकौ शिशिराभिबन्धात् धूमायनं वास्पसमुच्छ-यश्च। उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयनेभवन्ति। उष्णाभिवन्धो गुरुताक्षिशोथः कण्डूपदेहावतिशीतता च। स्रावो बहुः पिच्छिल एव चाषिकफाभिपन्ने नयने भवन्ति। ताम्राश्रुता लोहितनेत्रताच बाह्यः समन्तादतिलोहितश्च। वित्तस्य लिङ्गानि चयानि तानि रक्ताभिपन्ने नयने भवन्ति”। नेत्ररोगहेतुदोष उक्तो वैद्यके(
“नेत्रं स्यात् पवनाद्रक्षं घूम्रवर्णं तथाऽरुणम्। कोटरान्तप्रविष्टञ्च तथास्तञ्च विलोकनम्। हरिद्रा-खण्डवर्णञ्च रक्तं वा हरितं तथा। दीपद्वेषि सदाहञ्चनेत्रं स्यात् पित्तकोपतः। चक्षुर्बलासबाहुल्यात् स्निग्धंस्यात् सलिलप्लुतम्। तथा धवलवर्णञ्च ज्योतिर्हीनंबलान्वितम्। नेत्रं द्विदोषबाहुल्यात् स्याद् दोषद्वयलक्षणम्। त्रिदोषलिङ्गं सन्धेयं तन्मारयति रोगि-णम्। त्रिदोषदूषितं नेत्रमन्तर्मग्नं भृशं भवेत्। त्रिलिङ्गं सलिलस्रावि प्रायेणोन्मीलयत्यपि”। नेत्ररोग-भेदाश्च सुश्रुते उत्तरतन्त्रे अष्टभिरध्यायैः सलक्षणमुक्ता-स्तत्रैव दृश्याः।
“त्रपुहारी च पुरुषो जायते नेत्र-रोगवान्”।
“मधुहारी च पुरुषो जायते नेत्ररोगवान्” शाता॰ त्रपुमधुहरणेन तद्रोगवान् जायते” इत्युक्तम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नेत्ररोग¦ m. (-गः) Any disease of the eye. E. नेत्र, and रोग disease.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नेत्ररोग/ नेत्र--रोग m. id. Sus3r.

नेत्ररोग/ नेत्र--रोग mfn. afflicted with -eeye--ddisease , (612140 -ताf. ) Var.

"https://sa.wiktionary.org/w/index.php?title=नेत्ररोग&oldid=401625" इत्यस्माद् प्रतिप्राप्तम्