नेत्ररोगः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नेत्ररोगः, पुं, (नेत्रस्य चक्षुषो रोगः ।) चक्षू- रोगः । तस्य निदानं यथा, -- “उष्णाभितप्तस्य जलप्रवेशाद्- दूरेक्षणात् स्वप्नविपर्य्ययाच्च । स्वेदाद्द्रजोधूमनिषेवणाच्च छर्द्देर्व्विघाताद्बमनातियोगात् ॥ द्रवात्तथान्नान्निशि सेविताच्च विण्मूत्रवातक्रमनिग्रहाच्च । दुग्धोत्पन्नं नवनीतं यष्टीनिम्बस्तिलाश्च संयोज्याः । त्रिफला गुडसंयुक्ता लेपनं कफनेत्रजरोगघ्नम् ॥ शुण्ठी सैन्धवतुल्यं मागधिका ताम्रभाजने घृष्टम् । दध्ना धृतेनाञ्जनकं निहन्ति सर्व्वांश्च नेत्रगदान् ॥ वातपित्तकफदोषसम्भवान् नेत्रयोर्बहुपीडनं क्षणात् । एक एव हरति प्रयोजितः शिशुपल्लवरसः समाक्षिकः ॥” इति हारीते चिकित्सितस्थाने ४४ अध्यायः ॥)
