नेत्रामयः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नेत्रामयः, पुं, (नेत्रस्य आमयो रोगः ।) चक्षू- रोगः । तस्य निदानं यथा, -- “वातात् पित्तात् कफाद्रक्तादभिष्यन्दश्चतुर्विधः । प्रायेण जायते घोरः सर्व्वनेत्रामयाकरः ॥” इति माधवकरः ॥ (अस्य लक्षणं यथा, -- “अल्पास्रुरागाऽनुपदेहता च प्रस्पन्दतोदातिरुजश्च वातात् । पित्तात्तु दाहार्त्ति रुजोऽतिरागाः पीतोऽतिदेहः सुभृशोष्णमस्रु ॥ शुक्लोपदेहो बहुपिच्छिलास्रु नेत्रं कफात् स्यात् गुरुता सकण्डूः । सर्व्वाणि रूपाणि तु सन्निपाता नेत्रामयाः षण्णवतिस्तु भेदात् ॥ तेषामभिव्यक्तिरभिप्रदिष्टा शालाक्यतन्त्रेषु चिकित्सितञ्च । पराधिकारे तु न विस्तरोक्तिः शस्तेति तेनात्र न नः प्रयासः ॥” इति चिकित्सितस्थाने षड्विंशतितमेऽध्याये चरकेनोक्तम् ॥)
