सामग्री पर जाएँ

नेदिष्ठम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नेदिष्ठम्, त्रि, (अयमेषामतिशयेनान्तिकः । अन्तिक + “अतिशायने तमबिष्टनौ ।” ५ । ३ । ५५ । इति इष्ठन् । “अन्तिकवाढयोर्नेदसाधौ ।” ५ । ३ । ६३ । इति नेदादेशः ।) अन्तिकतमम् । अतिनिकटम् । इत्यमरः । ३ । १ । ६८ ॥ (यथा, ऋग्वेदे । ४ । १ । ५ । “स त्वं नो अग्नेऽवमो भवोती नेदेष्टो अस्या उषसो व्युष्टौ ॥” यथाच, उद्धवसन्देनो । ३ । “सोत्कण्ठोऽभूदभिमतकथां संशितुं कंसभेदी नेदिष्ठाय प्रणयलहरी बद्धवागुद्धवाय ॥”) निपुणम् । इति राजनिर्घण्टः ॥ अङ्कोठवृक्षे पुं । इति जटाधरः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नेदिष्ठम् ind. 112176

"https://sa.wiktionary.org/w/index.php?title=नेदिष्ठम्&oldid=401749" इत्यस्माद् प्रतिप्राप्तम्