सामग्री पर जाएँ

नेमिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नेमिः, स्त्री, (नयति चक्रमिति । नी + “नियो मिः ।” उणां । ४ । ४३ । इति मिः ।) चक्र- परिधिः । रथचक्रस्य भूमिस्पर्शिभागः । तत्- पर्य्यायः । प्रधिः २ । इत्यमरः । २ । ८ । ५६ ॥ नेमी ३ । इति भरतः ॥ (यथा, रघुः । १ । ३९ । “मनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः । षड्जसंवादिनीः केका द्विधा भिन्नाः शिख- ण्डिभिः ॥”) कूपोपरिस्थपट्टप्रान्तभागः । इति भरतः ॥ (प्रान्तभागः । यथा, रघुः । ९ । १० । “अजयदेकरथेन स मेदिनी- मुदधिनेमिमधिज्यशरासनः ॥”) भूमिस्थकूपपट्टः । इत्यन्ये । कूपस्य समीपे रज्जु- धारणार्थं त्रिदारुयन्त्रम् । इति स्वामी ॥ तत्- पर्य्यायः । त्रिका २ । इत्यमरः । १ । १० । २७ ॥ कूपनिकटसमानस्थानम् । यथा, -- “नेमिर्नेमीतिका च स्यात् कूपान्तिकसमस्थले ॥” इति शब्दरत्नावली ॥

नेमिः, पुं, जिनविशेषः । इति हेमचन्द्रः । १ । २८ ॥ तिनिशवृक्षः । इत्यमरः । २ । ४ । २६ ॥ मथुरादौ तिनाश इति ख्यातः ॥ (दैत्यविशेषः । यथा, भागवते । ८ । २१ । १९ । “हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वचः । मा युध्यत निवर्त्तध्वं न नः कालोऽयमर्थकृत् ॥” नयति शत्रून् विनाशमिति । नी + “नियो मिः ।” उणां ४ । ४३ । इति मिः । वज्रः । इति निघण्टुः । २ । २० ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नेमिः [nēmiḥ] मी [mī], मी f. 4 The circumfercnce, ring or felly of a wheel; उपोढशब्दा न रथाङ्गनेमयः Ś.7.1; चक्रनेमिक्रमेण Me.111; R.1.17,39.

Edge, rim; भुजान् कुठारेण कठोरनेमिना चिच्छेद रामः प्रसभं त्वहेरिव Bhāg.9.15.34.

A windlass.

A circumference (in general); उदधिनेमि R.9.1.

A thunderbolt.

The earth. -मिः The tree तिनिश. -Comp. -तुम्बारम् The felly and nave; शोभनमस्य चक्रस्य नेमितुम्बारम् ŚB. on Ms.1.4.2. -वृत्ति a. following the course of, acting like, the outer rims of the wheel; न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः R.1.17.

"https://sa.wiktionary.org/w/index.php?title=नेमिः&oldid=401896" इत्यस्माद् प्रतिप्राप्तम्