नैपुण्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नैपुण्यम्, क्ली, (निपुणस्य भावः कर्म्म वा । “गुण- वचनब्राह्मणादिभ्यः कर्म्मणि च ।” ५ । १ । १२४ । इति ष्यञ् ।) निपुणता । निपुणस्य भाव इत्यर्थे ष्ण्यप्रत्ययनिष्पन्नम् । यथा, -- “अशक्यः सहसा राजन् भावो बोद्धुं परस्य वै । अन्तःस्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशम् ॥” इति रामायणे लङ्काकाण्डे १७ सर्गः ॥
