नैमित्तिकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नैमित्तिकम्, त्रि, (निमित्तादागतं निमित्तभवं वा । इति ठक् ।) निमित्तजन्यम् । यथा, -- “नैमित्तिकानि काम्यानि निपतन्ति यथा यथा । तथा तथैव कार्य्याणि नात्र कालं विचारयेत् ॥” इति ग्रहयागतत्त्वम् ॥ माससंवत्सरादिविशेष नियम-शून्यावश्यकर्त्तव्य- कादाचित्कनिमित्तोत्पन्नं पुत्त्रजन्मादिनिमि- त्तकश्राद्धादि । यथा, -- “नित्यनैमित्तिके कुर्य्यात् प्रयतः सन् मलिम्लुचे । तीर्थस्नानं गजच्छायां प्रेतश्राद्धं तथैव च ॥” इति मलमासतत्त्वम् ॥ (निमित्तं वेत्ति निमित्तबोधकग्रन्थमधीते वा इति ठक् । निमित्तशास्त्राभिज्ञे तदध्ययनकर्त्तरि च ॥)
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--one of the three kinds of श्राद्ध. M. १६. 5.
