नैमित्तिकलय
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नैमित्तिकलयः, पुं, (नैमित्तिकः ब्रह्मणो दिवाव- साननिमित्तवशात् यो लयः ।) प्रलयविशेषः । यथा, -- “चतुर्युगसहस्रान्ते ब्राह्मो नैर्मित्तिको लयः । अनावृष्टिश्च कल्पान्ते जायते शतवार्षिकी ॥ उत्तिष्ठन्ति तदा रौद्रा दिवि सप्त दिवाकराः । ते तु पीत्वा जलं सर्व्वं शोषयन्ति जगत्त्रयम् ॥ भूर्भुवःस्वर्म्महर्लोकसंस्था यान्ति जनं जनाः । रुद्रो भूत्वा त्वसौ विष्णुः पातालानि दहत्यधः ॥ विष्णुर्दहेत्त्रिलोकञ्च मुखान्मेघान् सृजत्यलम् । वर्षन्ते च वर्षशतं नानावर्णा महाघनाः ॥ विष्ण्वास्यजः शतं वाति वर्षाणां वायुरूर्ज्जितः ॥ विष्णुरेकार्णवे पीत्वा सव्व ब्रह्मस्वरूपधृक् । शेतेऽनन्तासने विष्णुर्नष्टे स्थावरजङ्गमे । सुप्त्वा युगसहस्रं स जगद्भूयोऽसृजद्धरिः ॥” इति गरुडपुराणम् ॥ (तथा च भागवते । ८ । २४ । ७ । “आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नैमित्तिकलय¦ पु॰
“चतुर्युगसहस्रान्ते ब्राह्मो नैमित्तिकोलयः” इत्युक्ते प्रलयभेदे
“चतुर्दशगुणो ह्येष कालोब्राह्म्यमहः स्मृतम्। तस्यान्ते प्रलयः प्रोक्तो व्रह्मन्!नैमित्तिको बुधैः” मार्कण्डपु॰।
