नैमिषारण्यम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नैमिषारण्यम्, क्ली, (निमिषान्तरमात्रेण निहतं आसुरं बलं यत्र ततस्तत् नैमिषं अरण्य- मिति ।) अरण्यविशेषः । तस्योत्पत्तिर्यथा, -- “तेन चक्रेण तत्सैन्यमासुरं दौर्ज्जयं क्षणात् । निमिषान्तरमात्रेण भस्मवद्बहुधा कृतम् ॥ एवं कृत्वा ततो देवो मुनिं गौरमुखं तदा । उवाच निमिषेणेदं निहतं दानवं बलम् ॥ अरण्येऽस्मिंस्त्वतस्त्वेवन्नैमिषारण्यसंज्ञकम् । भविष्यति यथार्थं वै ब्राह्मणानां विणेषतः ॥” इति वराहपुराणे गौरमुखं प्रति भगवद् वाक्यम् ॥ अपि च । “देशं वः संप्रवक्ष्यामि यस्मिन्देशे चरिष्यथ । उक्त्वा मनोमयं चक्रं स सृष्ट्वा तानुवाच ह ॥ क्षिप्तमेतन्मया चक्रमनुव्रजत माचिरम् । यत्रास्य नेमिः शीर्य्येत स देशः पुरुषर्षभ ॥ ततो मुमोच तच्चक्रं ते च तत् समनुव्रजन् । तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्य्यत ॥ नैमिषं तत् स्मृतं नाम्ना पुण्यं सर्व्वत्र पूजितम् । सिद्धचारणसङ्कीर्णं यक्षगन्धर्व्वसेवितम् ॥ स्थानं भगवतः शम्भोरेतन्नैमिषमुत्तम् । अत्र देवाः सगन्धर्व्वाः सयक्षोरगराक्षसाः । तपस्तप्त्वा पुरा देवा लेभिरे प्रचुरान् भगान् ॥” इति कौर्म्मे ४० अध्याये षट्कुलीयान् प्रति ब्राह्मवाक्यम् ॥ (क्वचि त्तालव्यशान्तोऽपि पाठो दृश्यते तत्र तु ब्रह्मणा विसृष्टस्य मनोमयचक्रस्य नेमिः शीर्य्यते यत्रेति व्युत्पत्त्र्या नेमिशं नेमिश- मेव नैमिशं तदाख्यमरण्यमिति बोध्यम् । तथा च वायवीये । “एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते । यत्रास्य शीर्य्यते नेमिः स देशः तपसः शुभः ॥ इत्युक्त्रा सूर्य्यसङ्काशं चक्रं सृष्ट्वा मनोमयम् । प्रणिपत्य महादेवं विससर्ज्ज पितामहः ॥ तेऽपि हृष्टतमा विप्राः प्रणम्य जगतां प्रभुम् । प्रययुस्तस्य चक्रस्य यत्र नेमिर्व्यशीर्य्यत ॥ तद्बनं तेन विख्यातं नैमिशं मुनिपूजितम् ॥” तथा च देवीभागवते । १ । २ । २८-३२ । “कलिकालविभीताः स्मो नैमिशारण्यवासिनः । ब्रह्मणात्र समादिष्टाश्चक्रं दत्त्वा मनोमयम् ॥ कथितं तेन नः सर्व्वान् गच्छन्त्वेतस्य पृष्ठतः । नेमिः संशीर्य्यते यत्र स देशः पावनः स्मृतः ॥ कलेस्तत्र प्रवेशो न कदाचित् संभविष्यति । तावत् तिष्ठन्तु तत्रैव यावत् सत्ययुगं पुनः ॥ तच्छ्रुत्वा वचनं तस्य गृहीत्वा तत्कथानकम् । चालयन्निर्गतस्तूर्णं सर्व्वदेशदिदृक्षया ॥ प्रेत्यात्र चालयंश्चक्रं नेमिः शीर्णोऽत्र पश्यतः । तेनेदं नैमिशं प्रीक्तं क्षेत्रं परमपावनम् ॥”)
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a क्षेत्र and forest; a तीर्थ where Goddess लिन्गधारिणी is enshrined; फलकम्:F1: M. 1. 4; १३. २६.फलकम्:/F best in कृतयुग; फलकम्:F2: Ib. १०६. ५७; १०९. 3; ११०. 1; १८०. ५५; २४६. ९३.फलकम्:/F sacred to the पिट्र्स्; here the spokes of Haricakra (Dharmacakra- वा। प्।) fell to pieces; here is the image of विष्णु in वाराह form; फलकम्:F3: Ib. २२. १२, १४; वा. 1. १५.फलकम्:/F the sage पिप्प्लाद living there was questioned by [page२-266+ ३०] युधिष्ठिर about अङ्गारकव्रत; फलकम्:F4: M. ७२, 2, Br. I. 2. 8; वा. 2. 8; २१. 1; २३. २०६; ७७. ९३; १०८. ४० and ४२.फलकम्:/F the forest where the seers performed sacrifices.^5
