नैरृतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नैरृतः, पुं, (निरृतेरपत्यम् । इत्यण् ।) राक्षसः । (यथा, महाभारते । १ । ६६ । ५५ । “तस्यापि निरृ तिर्भार्य्या नैरृता येन राक्षसाः ॥”) पश्चिमदक्षिणकोणाधिपतिः । इत्यमरः । १ । १ । ६३, १ । ३ । २ ॥ ज्योतिषमते तत्कोणा- धिपती राहुः । यथा, -- “सूर्य्यः शुक्रः क्षमापुत्त्रः सैंहिकेयः शनिः शशी । सौम्यस्त्रिदशमन्त्री च प्रागादिदिगधीश्वराः ॥” इति ज्योतिस्तत्त्वम् ॥
