सामग्री पर जाएँ

नैर्म्मल्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नैर्म्मल्यम्, क्ली, (निर्म्मलस्य भावः । इति ष्यञ् ।) निर्म्मलत्वम् । (तथा च हारीतेनोक्तम् । “जिह्वाक्लेदं जनयति तथा नेत्रनैर्म्मल्यकारी ॥”) विषयवैराग्यम् । यथा, -- “विषयेष्वतिसंरागो मानसो मल उच्यते । तेष्वेव हि विरागस्तु नैर्म्मल्यं समुदाहृतम् ॥” इति प्रायश्चित्ततत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=नैर्म्मल्यम्&oldid=145740" इत्यस्माद् प्रतिप्राप्तम्