सामग्री पर जाएँ

नैवेद्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नैवेद्यम्, क्ली, (निवेदं निवेदनमर्हतीति । निवेद + ष्यञ् ।) देवाय निवेदनीयद्रव्यम् । तस्य निरुक्ति- र्यथा, -- “चतुर्व्विधं कुलेशानि द्रव्यं ते षड्रसान्वितम् । निवेदनात् भवेत्तृप्तिर्नैवेद्यं तदुदाहृतम् ॥” इति कुलार्णवे १७ उल्लासः ॥ तद्द्रव्याणि यथा, -- “ससितेन सुशुद्धेन पायसेन ससर्पिषा । सितोदनं सकदलिदध्याद्यैश्च निवेदयेत् ॥” इति प्रपञ्चसारः ॥ तत् पञ्चविधम् । यथा, -- “निवेदनीयं यद्द्रव्यं प्रशस्तं प्रयतं तथा । तद्भक्ष्यार्हं पञ्चविधं नैवेद्यमिति कथ्यते ॥ भक्ष्यं भोज्यञ्च लेह्यञ्च पेयं चूष्यञ्च पञ्चमम् । सर्व्वत्र चैतन्नैवेद्यमाराध्यास्यै निवेदयेत् ॥” * ॥ तत् पात्रं यथा, -- “तैजसेषु च पात्रेषु सौवर्णे राजते तथा । ताम्रे वा प्रस्तरे वापि पद्मपत्रेऽथवा पुनः ॥ यज्ञदारुमये वापि नैवेद्यं स्थापयेद्बुधः । सर्व्वाभावे च माहेये स्वहस्तघटिते यदि ॥” इति तन्त्रसारः ॥ * ॥ तद्दानफलं यथा, -- “नैबेद्येन भवेत् स्वर्गो नैवेद्येनामृतं भवेत् । धर्म्मार्थकाममोक्षाश्च नैवेद्येषु प्रतिष्ठिताः ॥ सर्व्वयज्ञफलं नित्यं नैवेद्यं स्रर्व्वतुष्टिदम् । ज्ञानदं मानदं पुण्यं सर्व्वभोग्यमयं तथा ॥ मनसापि महादेव्यै नैवेद्यं दातुमिच्छति । यो नरो भक्तियुक्तः सन् दीर्घायुः स सुखी भवेत् ॥ महामायां कदा देवीमर्च्चयिष्यामि शक्तितः । नानाविधैस्तु नैवेद्यैरिति चिन्ताकुलस्तु यः । स सर्व्वकामान् संप्राप्य मम लोके महीयते ॥” इति कालिकापुराणे । १६९ । १७० । अध्यायः ॥ तत्कालो यथा, -- निर्म्माल्यं दृढभक्तित्वाद्गृह्णीयाद्यस्तु पार्व्वति ॥ प्रथमं विष्णवे दत्त्वा विष्णुमन्त्रेण सुन्दरि । निर्म्माल्यं मम देवेशि विष्णोर्ग्राह्यं वरानने ॥ देवासुरमनुष्याश्च गन्धर्व्वाः किन्नरादयः । ते सर्व्वे परमेशानि वराकाः क्षुद्रबुद्धयः ॥ निर्म्माल्येषु च देवेशि ! अधिकारी कथं भवेत् ॥” इति लिङ्गार्च्चनतन्त्रे । १३ । १४ । पटलः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नैवेद्य¦ न॰ निवेदं निवेदनमहेति ष्यञ् नि + विद--णिच्कर्मणि यत् स्वार्थे अण् वा।
“निवेदनीयं द्रब्यन्तु नैवे-द्यमिति कथ्यते” इति स्मृत्युक्ते देवतोद्देशेन त्यक्तव्ये द्रव्ये[Page4151-b+ 38] तस्य व्युत्पत्तिर्यथा
“चतुर्विधं कुलेशानि! द्रव्यं तु षड्र-सान्वितम्। निवेदनात् भवेत् तृप्तिर्नैवेद्यं तदुदाहृतम्” कुलार्णवे

१७ उल्लामे। तद्द्रव्याणि यथा
“ससितेन सुशु-द्धेन पायसेन ससर्पिषा। सितोदनं सकदलिकं दध्याद्यैश्चनिवेदयेत्” इति प्रपञ्चसारः।
“निवेदनीयं यद्द्रव्यं प्र-शस्तं प्रयतं तथा। तद्भक्ष्यार्हं पञ्चविधं नैवेद्यमिति क-थ्यते। भक्ष्यं भोज्यञ्च लेह्यञ्च पेयं चोष्यञ्च पञ्चमम्। सर्वत्र चैतन्नैवेद्यमाराध्यस्य निवेदयेत्”। तत्पात्रं यथा
“तैजसेषु च पात्रेषु सौवर्णे राजते तथा। ताम्रे वाप्रस्तरे वापि पद्मपत्रेऽथ वा पुनः। यज्ञदारुमये वापिनैवेद्यं स्थापयेद्बुधः। सर्वाभावे च माहेये स्वहस्तघटितंयदि” इति तन्त्रसारः। तद्दानफलं यथा
“नैवेद्येन भवेत्स्वर्गो नैवेद्येनामृतं भवेत्। धर्मार्थकाममोक्षाश्च नैवे-द्येषु प्रतिष्ठिताः। सर्वयज्ञफलं नित्यं नैवेद्यं सर्वतु-ष्टिदम्। ज्ञानदं मानदं पुण्यं सर्वभोग्यमयं तथा। मनसापि महादेव्यै नैवेद्यं दातुमिच्छति। यो नरोभक्तियुक्तः सन् दीर्घायुः स सुखी भवेत्। महामायांकदा देवीमर्चयिष्यामि भक्तितः। नानाविधैस्तु नैवेद्यै-रिति चिन्ताकुलस्तु यः। स सर्वकामान् संप्राप्य ममलोके महीयते” इति कालिकापु॰

१६

९ ।

७० अ॰। तत्-कालो यथा
“अर्वाक् विसर्जनाद्द्रव्यं नैवेद्यं सर्वसु-च्यते। विसर्जिते जगन्नाथे निर्माल्यं भवति क्षणात्। पञ्चरात्रविदो मुख्या नैवेद्यं भुञ्जते सुखम्” गरुडपु॰। तस्य स्थापनस्थानं यथा गौतमीये
“वामतस्तु तथा धूप-मग्रे वा न तु दक्षिणे। नैवेद्यं दक्षिणे भागे पुरतो वान पृष्ठतः”। दक्षिणभागस्तु देवताया एव न तु साध-कस्य।
“पक्वञ्च देवतावामे आमान्नञ्चैव दक्षिणे” पुर-श्चरणचन्द्रिका।
“दक्षिणं तु परित्यज्य वामे चैवनिधापयेत्। अभोज्यं तद्भयेदन्नं पानीयञ्च सुरोपमम्” इति तन्त्रसारः। तन्मुद्रा यथा
“नैवेद्यमुद्रामङ्गुष्ठकनि-ष्ठाभ्यां प्रदर्शयेन्। कनिष्ठानामिकाङ्गुष्ठैर्मुद्रा प्राणस्यकीर्त्तिता। तर्जनीमध्यमाङ्गुष्ठैरपानस्य तु मुद्रिका। अनामामध्यमाङ्गुष्ठैरुदानस्य तु सा स्मृता। तर्जन्यऽ-नामामध्याभिः साङ्गुष्ठाभिश्चतुर्थिका। सर्वाभिः सा स-मानस्य प्राणादन्नेषु योजिता। तारपूर्वां जपेन्मुद्रांप्राणादीनां प्रदर्शयेत्” इति यामलः। ब्राह्मणाय तत्सम-र्पणं यथा
“साक्षात् खादति नैवेद्यं विप्रसूपो जना-र्दनः। ब्राह्मणे परितुष्टे च तन्मुष्टाः सर्वदेवताः। [Page4152-a+ 38] देवाय दत्त्वा नैवेद्यं द्विजाय न प्रयच्छति। भस्मीभूतञ्चनैवेद्यं पूजनं निष्फलं भवेत्। देवदत्तं नृ भोक्तव्यंनैवेद्यञ्च विना हरेः। प्रशस्तं सर्वदेवेषु विष्णोर्नैवेद्य-भोजनम्”। शूद्रस्य तद्भक्षणविधिर्यथा
“शूद्रश्चेद्धरिभ-क्तश्च नैवेद्यभोजनोत्सुकः। आमान्नं हरये दत्त्वापाकं कृत्वा तु खादयेत्” श्रीकृष्णजन्मखण्डे

११ अ॰। नारसिंहे
“मोचकं पनसं जम्बु तथाऽन्यल्लवलीफलम्। प्राचीनामलकं श्रेष्ठं मधुकोडुम्बरन्तथा। यत्नपक्वमपिग्राह्यं कदलीफलमुत्तमम्” मोचकं कदलकम्। प्राची-नामलकं करमर्दकम्। वराहपुराणे
“अपर्युषितपक्वानिदार्तव्यानि प्रयत्नतः। खण्डाज्यादिकृत पक्वं नैव पर्यु-षितं भवेत्”। वामनपुराणम्
“हबिषा संस्कृता ये च यवगोधूमशालयः। तिलमुद्गादयो माषा ब्रीहयश्च प्रियाःहरेः” विष्णुः
“नाभक्ष्यं नैवेद्यार्थे भक्षेष्वजामहिषीक्षीरं वर्जयेत्। पञ्चनखश्च मत्स्यवराहमांसानि चेति”। अभक्ष्य मिति यद्वर्णस्य यदभक्ष्यं स्वरूपतोलशुनादि तत्तेन न देयम्। न तु रात्र्यादौ दध्यादि। पञ्चनखश्चशशातिरिक्तः।
“मार्गं मांसं तथा छागं शाशं मांसन्तथैवच। एतानि हि प्रियाणि स्युः प्रयोज्यानि वसुन्धरे!” इति वराहपुराणे भगद्वाक्यात् तथा
“माहिषञ्चाविकंमांसमयाज्ञिकमुदाहृदम्। माहिषं वर्जयेन्मांसं क्षीरंदधि घृतन्तथा” देवलः।
“चाण्डालेन शुना वापि दृष्टंहविरयज्ञियम्। विडालादिभिरुच्छिष्टं दुष्टमन्नं विव-र्जयेत्”।
“अन्यत्र हिरण्योदकस्पर्शादिति”। श्रीभागवते
“यदुयदिष्टतमं लोके यच्चापि प्रियमात्मनः। तत्तन्निवेदन्मह्यं तदानन्त्याय कल्प्यते” मह्यं वासुदेवाय आह्नि॰ त॰। नैवेद्यञ्च पञ्चोपचारादिपूजाङ्गम्। तद्दाने च थण्टा-वादनं कर्त्तव्यम्
“धूपे दीपे च नैवेद्ये स्नपने वसने तथा। घण्टानादं प्रकुर्वीत तथा नीराजनेऽपि च” विधा॰ पा॰धृतवाक्यात्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नैवेद्य¦ n. (-द्यं) An offering of eatable articles presented to a deity, and may afterwards be distributed to his ministers or worshippers, es- pecially when it has been presented to any form of VISHN4U. E. निवेद presenting, offering, ष्यञ् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नैवेद्यम् [naivēdyam], An offering of eatables presented to a deity or idol.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नैवेद्य/ नै--वेद्य n. an offering of eatables presented to a deity or idol BhP. (cf RTL. 144 , 415 )

"https://sa.wiktionary.org/w/index.php?title=नैवेद्य&oldid=402801" इत्यस्माद् प्रतिप्राप्तम्