नैशम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नैशम्, त्रि, (निशायाइदम् । निशा + “तस्येदम् ।” ४ । ३ । १२० । इति अण् ।) निशासम्बन्धि । (यथा, बृहत्संहितायाम् । ४ । २ । “सलिलमये शशिनि रवेर्दीधितयो मूर्च्छिता- स्तमो नैशम् । क्षपयन्ति दर्पणोदरनिहिता इव मन्दिर- स्यान्तः ॥” * ॥ निशायां भवम् । निशा + “निशाप्रदोषाभ्याञ्च ।” ४ । ३ । १४ । इति पक्षे अण् ।) निशाभवम् । इति सिद्धान्तकौमुदी ॥ (यथा, मनुः । २ । १०२ । “पूर्ब्बां सन्ध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति । पश्चिमान्तु समासीनो मलं हन्ति दिवाकृतम् ॥”)
