नैष्ठिकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नैष्ठिकः, त्रि, (निष्ठा विद्यतेऽस्येति । निष्ठा + मत्वर्थीयष्ठक् ।) ब्रह्मचर्य्यं कृत्वा यावज्वीवं “गुरुकुले यो वसति सः । यथा, -- नैष्ठिको ब्रह्मचारी च वसेदाचार्य्यसन्निधौ । तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा ॥ अनेन विधिना देहं साधयेद्विजितेन्द्रियः । ब्रह्मलोकमवाप्नोति न चेह जायते पुनः ॥” इति गरुडपुराणम् ॥ (यथा, महाभारते । ३ । २८२ । २७ । “शतयोजनविस्तारं न शक्ताः सर्व्ववानराः । क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः ॥”)
