न्यक्वारः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
न्यक्वारः, पुं, (न्यक् क्रियते इति । कृ + घञ् ।) न्यक्वरणम् । तत्पर्य्यायः । अवज्ञा २ परीहारः ३ परिहारः ४ पराभवः ५ अपमानम् ६ परि- भवः ७ तिरस्कारः ८ तिरस्किया ९ अवहेला १० हेला ११ अवहेलनम् १२ हेलनम् १३ अनादरः १४ अभिभवः १५ सूक्षणं १६ सूर्क्ष- णम् १७ रीढा १८ अभिभूतिः १९ निकृतिः २० असूक्षणम् २१ असूर्क्षणम् २२ नीकारः २३ अवहेलम् २४ अमाननम् २५ क्षेपः २६ निकारः २७ धिक्कारः २८ । इति शब्दरत्नावली ॥ विमा- नना । इति कालिदासः ॥ (यथा, महा- नाटके । ९ । १४ । “न्यक्वारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ॥”)
