न्यग्रोधपरिमण्डल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
न्यग्रोधपरिमण्डलः, पुं, (न्यग्रोधः व्यामः परि- मण्डलं परिणाहो यस्य ।) व्यामपरिमितोच्छ्रय- परीणाहः पुरुषः । एतादृशाः पुरुषास्त्रेतायुगे चक्रवर्त्तिन आसन् । यथा मात्स्ये ११८ अः । “महाधनुर्धराश्चैव त्रेतायां चक्रवर्त्तिनः । सर्व्वलक्षणसम्पन्ना न्यग्रोधपरिमण्डलाः ॥ न्यग्रोधौ तु स्मृतौ बाहू व्यामो न्यग्रोध उट्यते । व्यामेन उच्छ्रयो यस्य अध ऊर्द्ध्वञ्च देहिनः । समोच्छ्रयपरीणाहो न्यग्रोधपरिमण्डलः ॥” (अपिच । भट्टिटीकायां भरतमल्लिकधृताग्नि- पुराणवचनम् । “प्रसारितभुजस्येह मध्यभागद्वयान्तरम् । उच्छ्रायेण समं यस्य न्यग्रोधपरिमण्डलः ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
न्यग्रोधपरिमण्डल¦ पु॰ न्यग्रोधःव्यामः परिमण्डलं परिणाहोयस्य।
१ व्यामपरिमितोच्छ्रायपरिणाहे पुरुषे। तल्लक्षणयथा
“महाधनुर्द्धराश्चैव त्रेतायां चक्रवर्त्तिनः। सर्व-लक्षणसम्पन्नान्यग्रोधपरिमण्डलाः। न्यग्रोधौ तु स्मृतौवाहु व्यामी न्यग्रोध उच्यते। व्यामेन उच्छ्रयो यस्यअध ऊर्द्ध्वञ्च देहिनः। समोच्छ्रयपरिणाहो न्यग्रो-धपरिमण्डलः” मत्स्यपु॰
११
८ अ॰।
२ अङ्गनाविशेषे स्त्री
“स्तनौ सुकठिनौ यस्या नितम्बे च विशालता। मध्येक्षीणा भवेद्या सा न्यग्रोधपरिमण्डला” इति शब्दमा॰दूर्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला” भट्टिः।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
न्यग्रोधपरिमण्डल/ न्यग्--रोध---परिमण्डल mfn. being a fathom in circumference MatsyaP.