सामग्री पर जाएँ

न्यायः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

न्यायः, पुं, विष्णुः । यथा, “अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता समीरणः ।” इति तस्य सहस्रनाममध्ये गणितः ॥ * ॥ (नियमेन ईयते इति । नि + इण् + “परि- न्योर्नीणोर्द्यूताभ्रेषयोः ।” ३ । ३ । ३७ । इति घञ् ।) उचितः । तत्पर्य्यायः । अभ्रेषः २ क्वल्पः ३ देशरूपम् ४ समञ्जसम् ५ । इत्यमरः । २ । ८ । २४ ॥ * ॥ (नीयन्ते प्राप्यन्ते विवक्षितार्था येनेति । नी + “अध्यायन्यायोद्यावसंहाराश्च ।” ३ । ३ । १२२ । इति घञ्प्रत्ययेन निपातनात् साधुः । नीतिः । जयोपायः । भोगः । युक्तिः । इति चिन्तामणिः ॥) प्रतिज्ञाहेतूदाहरणोप- नयनिगमनात्मकपञ्चावयववाक्यम् । तल्लक्षणं यथा । अनुमितिचरमकारणलिङ्गपरामर्शप्रयो- जकशाब्दज्ञानजनकवाक्यत्वम् । इति चिन्ता- मणिः ॥ उचितानुपूर्ब्बिकप्रतिज्ञादिपञ्चकसमु- दायत्वम् । इति शिरोमणिः ॥ तल्लक्ष्यं यथा । पर्व्वतो वह्निमान् धूमात् यो यो धूमवान् स्र वह्रिमान् यथा महानसं वह्रिव्याप्यधूमवांश्चायं तस्माद्बह्रिमान् । इति जगदीशः ॥ * ॥ (पञ्चाङ्गमधिकरणम् । यथा, महाभारते । २ । ५ । ३ । “न्यायविद्धर्म्मतत्त्वज्ञः षडङ्गविदनुत्तमः ।” “न्यायः पञ्चाङ्गमधिकरणम् । यथा, -- ‘विषयो विषयश्चैव पूर्ब्बपक्षस्तथोत्तरः । पक्षद्वयफलञ्चैव शास्त्रेऽधिकरणं विदुः ॥’

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

न्यायः [nyāyḥ], [नियन्ति अनेन; नि-इ घञ्]

Method, manner, way, rule, system, plan; अधार्मिकं त्रिभिर्न्यायैर्निगृह्णीयात् प्रयत्नतः Ms.8.31; अनुक्ते हि न्याये न प्रतीमो$र्थान्तरम् ŚB. on MS.6. 2.5; तस्मान्नावस्थितो न्यायः प्रत्युद्ध्रियेत ŚB. on MS.6.2.1. ननु लिङ्गमसाधकं, न्याय उच्यतां यस्यैतद् द्योतकमिति ŚB. on MS.6. 2.3.

Fitness, propriety, decorum; न्यायाधारा हि साधवः Ki.11.3.

Law, justice, virtue, equity, righteousness, honesty; यान्ति न्यायप्रवृत्तस्य तिर्यञ्चो$पि सहायताम् A. R.1.4.

A law-suit, legal proceeding.

Judicial sentence, judgment.

Policy, good government.

Likeness, analogy.

A popular maxim, an apposite illustration, illustration, as दण्डापूपन्याय, काकतालीयन्याय, घुणाक्षरन्याय &c.; see Appendix.

A Vedic accent; न्यायैस्त्रिभिरुदीर्णम् Ku.2.12. (Malli. takes न्याय to mean स्वर; but it is quite open, in our opinion, to take न्याय in the sense of 'a system' or 'way'; 'which are manifested in three systems, i. e. ऋक्, यजुस् and सामन्'); न्यायगर्भद्विजाः Bh.3. 55.

(In gram.) A universal rule.

A system of Hindu philosophy founded by the sage Gautama.

The science of logic, logical philosophy.

A complete argument or syllogism (consisting of five members; i. e. प्रतिज्ञा, हेतु, उदाहरण, उपनय and निगमन).

An epithet of Viṣṇu. (न्यायेन ind. in the way of, after the manner or analogy of; बधिरान्मन्दकर्णः श्रेयानिति न्यायेन &c.). -Comp. -आगत a. rightly got, acquired (money).-आचार a. virtuous. -आधारः an example of virtue or propriety, -आभासः semblance of reason, sophism.-उपेत rightly admitted. -निर्वपण a. bestowing justly.-णः N. of Śiva; Mb.13.17.126 (com. न्याययुक्तं निर्वपणं दानं यस्य). -पथः the Mīmāṁsā philosophy; (pl.) the different philosophical systems; Bhāg. -वर्तिन् a. well behaved, acting justly. -वादिन् a. one who speaks what is right or just. -विद्या, -शिक्षा; see न्यायशास्त्र.-वृत्तम् good conduct, virtue.

शास्त्रम् the philosophical system of the Nyāya school.

the science of logic.-संबद्ध a. rational, logical. -सारिणी proper or suitable behaviour. -सूत्रम् the aphorisms of Nyāya philosophy by Gautama. [Note: A few of the common Nyāyas or popular maxims that were given under this word by Prin. Apte are taken in the Appendix along with many others.]

"https://sa.wiktionary.org/w/index.php?title=न्यायः&oldid=403771" इत्यस्माद् प्रतिप्राप्तम्