न्युङ्ख
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
न्युङ्खः, पुं, (न्युङ्ख्यते इति । नि + उङ्ख गतौ + घञ् ।) सामवेदे नियतप्रणवषट्कम् । दीर्घ- वानयमिति नयनानन्दः । इत्यमरभरतौ ॥ सम्यक् । मनोज्ञः । इति मेदिनी । खे, २ ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
न्यु(न्यू)ङ्ख¦ नि + उङ्ख घञ् पृषो॰ वा दीर्घः।
१ ऋग्भेदे गीतिषुउदात्तानुदात्तरूपेषु षोडशसु ओकारेषु तत्र त्रयः प्लुताःत्रयोदश अर्द्धौकारा इत्येवं षोडश ओकाराः तत्प्र-कारादिः आश्व॰ श्रौ॰
७१
१ प्रथमादिसूत्रेषूक्तो यथा
“चतुर्थेऽहनि यत् प्रातरनुवाकं प्रतिपद्यर्धर्चाद्योर्न्युङ्खः”
१ सू॰
“पार्ष्टिके चतुर्थेऽहनि यत् प्रातरनुवाकं तस्या-द्याया ऋचोयावर्धर्चयोरादी तयोन्युङ्खो भवति। अहरधिकारे पुनेरहनीतिवचनम् अहर्धर्मोऽयं न्युङ्खइति प्रदर्शनार्थम्। तेनात्र यान्युङ्खभाज ऋचस्तासा-सन्यत्र वचनादृते त्युङ्खो न भवति नारा॰ वृ॰
“द्वितीयं[Page4173-b+ 38] स्वरमोकारत्रिमात्रमुदात्तन्त्रिः”
२ सू॰
“इदानीं न्युङ्खस्यलक्षणमुच्यते तयोरर्धर्चयोर्यो द्वितीयः स्वरः संहिता-वस्थायान्तमोकारं त्रिमात्रं कृत्वा त्रिः ब्रूयात् पच्छो-ऽर्धर्चशः कृच्छ्रश इति सर्वत्र शंसनविधानात्। संहिताव-स्थायामेव मन्त्राणां शंसनमुक्त भवति। अत्र संहिताव-स्थायामेवमित्युक्तम्। पूर्वसूत्रेऽर्धचांद्योरित्याद्ययोर-क्षरयोर्न्युङ्खो विहितः इह तु द्वितीययोर्विधीयते कथ-मनयोः सम्बन्ध इति पूर्वसूत्रस्यायमभिप्रायः ब्राह्मणोक्तोथो न्युङ्खविधिरेकाक्षरद्व्यक्षरत्र्यक्षरचतुरक्षरैरिति सो-ऽयमर्धर्चाद्योरित्यनेन सूचितो भवति। यस्तु खलुपक्षस्तत्रैव सिद्धान्तितः तस्मात् द्व्यक्षरेणैव न्युङ्खयेत्इति तमेव पक्षमङ्गीछत्येदानीं न्युङ्खो विधीयते द्वितीयंस्वरम् इत्यादिना” नारा॰ वृ॰।
“तस्य तस्य चोपरि-ष्टादपरिमितान् पञ्च वार्धौकाराननुदात्तान्”
३ सू॰
“तस्यतस्यौकारस्योपरिष्टादर्धौकाराननुदात्तानपरिमितान् त्रोन्चतुरः पञ्च वा ब्रूयात्। यत्र सङ्ख्याविशेषनिर्दि-ष्टस्यापरिमितशब्द ब्रवीति तत्र निर्दिष्टसङ्ख्याविशेषा-दुपरिष्टादपरिमितशब्दार्थो ग्रहीतव्यः। यत्र पुनरु-परिष्टात् संख्याविशेषोन निर्दिष्टस्तत्र प्रागेव संख्यावि-शेषात् बहुत्वे सत्येवानियता ग्रहीतव्येति सिद्धम्। अर्धश्चासौ ओकारश्चार्धौकार इति कर्मधारयः” नारा॰ वृ॰।
“उत्तमस्य तु त्रीन्”
४ सू॰
“उत्तमस्यौकारस्योपरिष्टात्त्रीनेवार्धौकारान् ब्रूयात्” नारा॰ वृ॰।
“पूर्वमक्षरं निह-न्यते न्युङ्ख्यमाने”
५ सू॰
“निहन्यत इत्यनुदात्तीक्रियतइत्यर्थः। न्युङ्खाधिकारे पुनर्न्युङ्ख्यमान इति वचनप्रथमे द्वितीये तृतीये चतुर्थे वाक्षरे न्युङ्ख्यमानेऽपि तस्मात्पूर्वमक्षरं न निहन्यत इत्येवमर्थम्” नारा॰ वृ॰।
“तदपिनिदर्शनायोदाहरिष्यामः”
६ सू॰
“उक्तलक्षणस्यापिन्युङ्खस्यार्धौकारस्वरूपस्यालौकिकत्वादन्यदप्येवं जाती-यकं सन्देहं व्यबर्त्तयितुं निदर्शनं क्रियते” नारा॰ वृ॰।
“आपो
३ उउउउउ ओ
३ उउउउउ ओ
३ उउउ श्च स्थः स्वपस्यपत्नीः सरस्वती तद्गृणते। वयोधो
३ मापो
२ ”
७ सू॰
“आपो
३ प्लुतः रायो
३ प्लुतः वयोधो
३ मापो
३ प्लुत इत्येवं न्युङ्खस्यपुनरावृत्तिप्रदर्शनं प्रत्यावृत्ति न्युङ्खप्रापणार्थम्। अयमेवपाठः अवच्छिन्नसम्प्रदायागतः। यस्तु पुनःसंहितानुरू-मेण पाठः स प्रमादकृतत्वात् त्यक्तव्यः” नारा॰ वृ॰। अत्रप्लुतस्य ओकारत्रयस्य उपरिशिष्टात् पञ्च पञ्च च अर्द्धो-कारा एव बोध्या उकाराकारेण ये दर्शितास्ते अर्द्धौ-[Page4174-a+ 38] कारा इति बोध्यम्
“यज्ञकर्मण्यजपन्युङ्खसमासु” व्य॰
“यज्ञक्रियायां मन्त्रएकश्रुतिः स्याज्जपादीन्वर्ज्जयित्वा
“अग्निर्मूर्द्ध्वादिवः ककुत्”। यज्ञेति किम्? स्वाध्याय-काले त्रैस्वर्य्यमेव। अजपेति किम्? ममाग्ने! वर्चोविहवेष्वस्तु। जपोनाम उपांशुप्रयोगः यथा जलेनिमग्नस्य। न्युङ्खानाम षोडश ओकाराः गीतिषु समा-ख्याः” सि॰ कौ॰ कात्या॰ श्रौ॰ भाष्यादौ द्वादश ओकारादीर्घमध्या न्यूङ्खतया उक्ता यथा
“एकर्श्रुतिर्दूरात् सम्बुद्धौ यज्ञकर्मणि सुब्रह्मण्यासामजपन्यूङ्खयाजमानवर्जम्” कात्या॰ श्रौ॰
१ ।
८ ।
१९
“एकश्रुति-र्दूरात्सम्बुद्धावित्यनुवर्त्तमाने यज्ञकर्मणि मन्त्राणामेकश्रु-तिर्भवति न केनचित् स्वरेण प्रयोगः किं सर्वत्र सुब्रह्म-ण्यासामजपन्यूङ्खयाजमानवर्जम्। एतानि वर्जयित्वाअन्येषु मन्त्रेष्वेकश्रुतिर्भवति। सुब्रह्मण्योऽमिन्द्रागच्छे-त्यादिर्निगदः सुब्रह्मण्या सामानि उङ्कातृभिर्यज्ञे गीय-मानानि। जपाश्च धूरसि इन्द्रस्य बाहुरसि मयिदित्याद्याजपतीति शब्देन चोदिता मन्त्राः। न्यूङ्खास्तु पृष्ठ्येप्रडहे होतृवेदे प्रसिद्धा ओकारा द्वादश पिबा सोममि-न्द्र मन्दतु त्वा यं तो ओ ओ ओ
३ ओ ओ ओ
३ ओओ ओ ओ
३ सुषाव। हर्य्यश्वाद्रिरित्यादयः। याजमानंच सर्वं विष्णुक्रमादिक्रम्। तत्सम्बन्धिनो ये मन्त्रा-दिवि विष्णुरित्याद्याः अथ वा यजमानस्येमे याजमानाःएषु सुब्रह्मण्यादिषु याजमानान्तेषु यथा प्राप्तएव संहितास्वरो भवति नैकश्रुतिः” कर्कः। अनयोः पक्षयोः वेदभे-दादविरोधः।
२ अतिशये
३ मनोहरे त्रि॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
न्युङ्ख m. = न्यूङ्खL.
न्युङ्ख mfn. proper , right
न्युङ्ख mfn. pleasing , agreeable L.
