न्युब्जः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
न्युब्जः, पुं, (नि + उब्ज + अच् ।) दर्भमयस्रुक् । इति मेदिनी । जे, ११ ॥ (यथा, -- “शयनासनयानानामुत्तानानान्तु दर्शनम् । न्युब्जानामितरेषाञ्च पात्रादीनामशोभनम् ॥” इति वाभटे शारीरस्थाने । ६ । २३ ॥) कुशः । स्रुक् । इति हेमचन्द्रः ॥
न्युब्जः, त्रि, (न्युब्जति अधोमुखीभवतीति । नि + उब्ज + अच् ।) कुब्जः । अधोमुखः । इति मेदिनी । जे, १२ ॥ (यथा, हरिवंशे । ६१ । ६ । “स तत्रैकेन पादेन शकटं पर्य्यवर्त्तयत् । न्युब्जं पयोधराकाङ्क्षी चकार च रुरोद च ॥”) रुजा भुग्नः । इत्यमरः । २ । ६ । ६१ ॥ रोगेण वक्रीकृतपृष्ठाधोमुखपुरुषादिः । इति भरतः ॥
