न्युब्जम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
न्युब्जम्, क्ली, (न्युब्जति अधोमुखीभवतीति । नि + उब्ज + अच् ।) कर्म्मरङ्गफलम् । इति मेदिनी । जे, १२ ॥ श्राद्धादिपात्रभेदः । इति शब्दरत्नावली ॥ तथा च गोभिलः । प्रथमे पात्रे संस्रवान् सम- वनीय पात्रं न्युब्जं कुर्य्यात् पितृभ्यः स्थान- मसीति । प्रथमे पात्रे पितृपात्रे । संस्रवान् पितामहादिपञ्चार्घपात्रस्थशेषजलानि । समव- नीय क्रमेण स्थापयित्वा तत्पात्रस्य प्रपितामह- पात्रेणाच्छादनमाह शौनकः । प्रपितामह- पात्रेण पिधाय प्रतिष्ठापयतीति । याज्ञवल्क्ये- नापि तत्पात्रस्याधःस्थत्वाभिधानात् पात्रा- न्तरेण पिधानमाक्षिप्तम् । तथा च याज्ञ- वल्क्यः । “दत्त्वार्घ्यं संस्रवांस्तेषां पात्रे कृत्वा विधानतः । पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ॥” विधानतः यथापूर्ब्बं स्थापितं क्रमेण । तेन प्रपितामहपात्रेणाधःकृतं पितृपात्रं ऊर्द्ध्वमुख- मवस्थितं न्युब्जं करोति । तन्न्यासश्च । पितृ- पात्रे निधायाथ न्युब्जमुत्तरतो न्यसेत् । इति मत्स्यपुराणवचने न्यसेदित्यत्राख्यातोपस्थापित- कर्त्तुर्व्वामपार्श्वे कर्त्तव्यः । इति श्राद्धतत्त्वम् ॥
