सामग्री पर जाएँ

न्यूनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

न्यूनम्, त्रि, (न्यूनयति । नि + ऊन परिहाणे + अच् ।) गर्ह्यम् । (यथा, महाभारते । १३ । १४३ । ४६ । “एतैः कर्म्मफलैर्द्देवि ! न्यूनजातिकुलोद्भवः । शूद्रोऽप्यागमसम्पन्नो द्बिजो भवति संस्कृतः ॥”) ऊनम् । इत्यमरः । ३ । ३ । १२७ ॥ (यथा, मनुः । ८ । २०३ । “नान्यदन्येन संसृष्टरूपं विक्रयमर्हति । न चासारं न च न्यूनं न दूरे न तिरोहितम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=न्यूनम्&oldid=145826" इत्यस्माद् प्रतिप्राप्तम्