पङ्किलः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पङ्किलः, त्रि, (पङ्कोऽस्त्यस्मिन् । “लोमादिपामादि- पिच्छादिभ्यः शनेलचः” । ५ । २ । १०० । इति इलच् ।) सकर्द्दमः । तत्पर्य्यायः । सजम्बालः २ । इत्यमरः । २ । १ । १० ॥ पङ्कयुक्तः ३ । इति शब्दरत्नावली ॥ कर्द्दमान्वितः ४ । इति जटाधरः ॥ (लक्षणया व्याप्त्यर्थेऽपि । यथा महाभारते ८ पर्व्वणि । “मांसमज्जास्थिपङ्किला मही” ॥)
