पङ्केरुह
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पङ्केरुहम्, क्ली, (पङ्केरोहतीति । पङ्क + रुह + “इगु- पधेति” । ३ । १ । १३५ । इति कः । “तत्- पुरुषे कृति बहुलम्” । ६ । ३ । १४ । इति सप्तम्या अलुक् ।) पद्मम् । इत्यमरः ॥ १ । १० । ४० ॥ (यथा, भागवते । ७ । १५ । ६८ । “यत्पादपङ्केरुहसेवया भवानहारषीन्निर्जित- दिग्गजः क्रतून्” ॥) सारसपक्षिणि, पुं ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पङ्केरुह नपुं।
पद्मम्
समानार्थक:पद्म,नलिन,अरविन्द,महोत्पल,सहस्रपत्र,कमल,शतपत्र,कुशेशय,पङ्केरुह,तामरस,सारस,सरसीरुह,बिसप्रसून,राजीव,पुष्कर,अम्भोरुह,श्रीपर्ण
1।10।40।2।1
सहस्रपत्रं कमलं शतपत्रं कुशेशयम्. पङ्केरुहं तामरसं सारसं सरसीरुहम्.।
अवयव : उत्पलादिदण्डः,अब्जादीनाम्_मूलम्,पद्मकन्दः,पद्मकेसरः,पद्मादीनम्_नवपत्रः,पद्मबीजः
: शुभ्रकमलम्, रक्तकमलम्
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पङ्केरुह/ पङ्के--रुह n. id. Dhu1rtas. BhP.
पङ्केरुह/ पङ्के--रुह m. the Indian crane L.