पङ्क्तिदूषक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पङ्क्तिदूषकः, पुं, (श्राद्धकाले भोजनार्थमुप- विष्टानां व्रतस्नातानां ब्राह्मणानां पङ्क्तिं श्रेणीं दूषयति यः । पङ्क्ति + दूष् + कर्त्तरि ण्वुल् ।) अपाङ्क्तेयः । श्राद्धभोजनानर्हब्राह्मणः । यथा, -- “अपाङ्क्तेयास्तुयेराजन् ! कीर्त्तयिष्यामि तान् शृणु । कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः ॥ ग्रामप्रेष्यो वार्द्धुषिको गायनः सर्व्वविक्रयी । अगारदाही गरदः कुण्डाशी सोमविक्रयी ॥ सामुद्रिको राजदूतस्तैलिकः कूटकारकः । पित्रा विवदमानश्च यस्य चोपपतिर्गृहे ॥ अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति । पर्व्वकारश्च सूची च मित्रध्रुक् पारदारिकः ॥ अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च । श्वभिश्च यः परिक्रामेत् यः शुना दष्ट एव च ॥ परिवृत्तिस्तु यश्च स्याद्दुश्चर्म्मा गुरुतल्पगः । कुशीलवो देवलको नक्षत्रैर्यश्च जीवति ॥ ईदृशा ब्राह्मणा ये च अपाङ्क्तेयास्तु ते मताः । रक्षांसि गच्छते हव्यं यदेषान्तु प्रदीयते” ॥ * ॥ “श्राद्धे भुक्त्रा महाराज ! दुश्चर्म्मा गुरुतल्पगः । श्राद्धं नाशयते तस्य पितरोऽपि न भुञ्जते ॥ सोमविक्रयिणे दत्तं विष्ठातुल्यं भवेन्नृप ! भिषजे शोणितसमं नष्टं देवलके तथा ॥ अप्रतिष्ठं वार्द्धुषिके निष्फलं परिकीर्त्तितम् । बहुवाणिजके दत्तं नेह नामुत्र तद्भवेत् ॥ भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे । ये तु धर्म्मव्यपेतेषु चरित्रापगतेषु च ॥ हव्यं कव्यं प्रयच्छन्ति तेषां तत् परिनश्यति । ज्ञानपूर्ब्बन्तु ये तेभ्यः प्रयच्छन्त्यल्पबुद्धयः ॥ पुरीषं भुञ्जते तस्य पितरः प्रेत्य निञ्चितम् । एतान्विद्धि महाबाहो अपाङ्क्तेयान् द्बिजाधमान् । शूद्राणामुपदेशन्तु ये कुर्व्वन्त्यल्पबुद्धयः ॥ षष्टिं काणः शतं खञ्जः श्वित्री यावत् प्रपश्यति । पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप ! ॥ यद्वेष्टितशिरा भुङ्क्ते यद्भङ्क्ते दक्षिणामुखः । सोपानत्कश्च यद्भुङ्क्ते सर्व्वं विद्यात्तदासुरम् ॥ असूयते च यद्दत्तं यच्च श्रद्धादिवर्ज्जितम् । सर्व्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत् ॥ श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन् कथञ्चन ॥” * ॥ “तस्मात् परिवृते दद्यात्तिलांश्चान्ने विकीरयेत् । तिलैर्विरहितं श्राद्धं कृतं क्रोधवशेन च ॥ यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः । अपाङ्क्तेयानतः पङ्क्त्यां भुञ्जानो ननु पश्यति । तावत् फलाद्भ्रंशयति दातारं तस्य वाऽनिशम् ॥” इति पाद्मे स्वर्गखण्डे ३५ अध्यायः ॥
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पङ्क्तिदूषक¦ m. (-कः) An improper person to associate with, an outcaste. E. पङ्क्ति, and दूषक who spoils.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पङ्क्तिदूषक/ पङ्क्ति--दू ( Var. ) mfn. " defiling society " , (any person) improper to associate with.
