पङ्क्तिपावन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पङ्क्तिपावनः, पुं, (पङ्क्तिं श्राद्धोपलक्षे भोज- नायोपविष्टानां वेदविद्याविशारदानां ब्राह्म- णानां श्रेणीं पुनाति पावयति वा स्वोपवेशने- नेति । पङ्क्ति + पावि + ल्युः ।) श्रेणिपवित्र- कर्त्ता । श्राद्धभोजनार्हब्राह्मणः । यथा, -- “इमे हि मनुजश्रेष्ठ ! विज्ञेयाः पङ्क्तिपावनाः । विद्यावेदव्रतस्नाता ब्राह्मणाः सर्व्व एव हि ॥ सदाचारपराश्चैव विज्ञेयाः पङ्क्तिपावनाः । मातापित्रोर्यश्च वश्यः श्रोत्रियो दश पूरुषः ॥ ऋतुकालाभिगामी च धर्म्मपत्नीषु यः सदा । वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत ॥ अथर्व्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः । सत्रवादी धर्म्मशीलः स्वकर्म्मनिरतश्च यः ॥ ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः । मखेषु च समस्तेषु भवन्त्यवभृथप्लुताः ॥ अक्रोधना ह्यचपलाः क्षान्ता दान्ता जितेन्द्रियाः । सर्व्वभूतहिता ये च श्राद्धेष्वेतान् निमन्त्रयेत् ॥ एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः । यतयो मोक्षधर्म्मज्ञा योगाः सुचरितव्रताः ॥ ये चेतिहासं प्रयताः श्रावयन्ति द्बिजोत्तमान् । ये च भाष्यविदः केचिद्ये च व्याकरणे रताः ॥ अधीयते पुराणं ये धर्म्मशास्त्राणि चाप्युत । अधीत्य च यथान्यायं विधिवत्तस्य कारिणः ॥ उपपन्नो गुरुकुले सत्यवादी सहस्रदः । अग्य्राः सर्व्वेषु वेदेषु सर्व्वप्रवचनेषु च ॥ यावदेते प्रपश्यन्ति पङ्क्त्यां तावत् पुनन्ति च । ततो हिपावनात् पङ्क्त्या उच्यन्ते पङ्क्तिपावनाः ॥ अनृत्विगनुपाध्यायः स चेदग्र्यासनं व्रजेत् । ऋत्विग्भिरननुज्ञातः पङ्क्त्या हरति दुष्कृतम् ॥ अथ चेद्वेदवित् सर्व्वैः पङ्क्तिदोषैर्व्विवर्ज्जितः । न च स्यात् पतितो राजन् ! पङ्क्तिपावन उच्यते ॥” इति पाद्मे स्वर्गखण्डे ३५ अध्यायः ॥ (पञ्चाग्निर्गृ हस्थः । यथाह हारीतः । “पवनः पावनस्त्रेता यस्य पञ्चाग्नयो गृहे । सायं प्रातः प्रदीप्यन्ते स विप्रः पङ्क्तिपावनः ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पङ्क्तिपावन¦ पु॰ पङ्क्तिं श्राद्धे भोजनार्थमुपविष्टानामा-वलिं पुनाति पू--णिच्--ल्यु। श्राद्धभोजनार्थमुपविष्टानांविप्राणां पङ्क्तिपवित्रताकारके विद्याविशिष्टादौ
“अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैः। तान्निबोधत कात्र्स्न्येन द्विजाग्र्यान् पङ्क्तिपा-वनान्। अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च। श्रो-[Page4181-a+ 38] त्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः त्रिणाचि-केतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित्। ब्राह्म्यदेयात्म-सन्तानो ज्येष्ठसामग एव च। वेदार्थवित् प्रवक्ता चब्रह्मचारी सहस्रदः। शतायुश्चैव विज्ञेया ब्राह्मणाःपङ्क्तिपावनाः” मनुः
“इमे हि मनुजश्रेष्ठ! विज्ञेयाःपङ्क्तिपावनाः। विद्यावेदव्रतस्नाता ब्राह्मणाः सर्व एवहि। मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपुरुषः। ऋ-तुकालाभिगामी च धर्मपत्नीषु यः सदा। वेदविद्या-व्रतस्नातो विप्रः पङ्क्तिं पुनात्युत। अथर्वशिरसोऽध्येताब्रह्मचारी यतव्रतः। सत्यवादी धर्मशीलः स्वकर्मनिरतश्च यः। ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः। मखेषु च समस्तेषु भवन्त्यवभृथप्लुताः। अक्रोधना ह्यच-पलाः क्षान्ता दान्ता जितेन्द्रियाः। सर्वभूतहिता ये चश्राद्धेष्वेतान्निमन्त्रयेत्। एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः। यतयो मोक्षधर्मज्ञा ये वा सुचरितव्रताः। ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान्। ये चभाष्यविदः केचिद्ये च व्याकरणे रताः। अधीयते पु-राणं ये धर्मशास्त्राणि चाप्युत। अधीत्य च यथा-न्यायं विधिवत्तस्य कारिणः। उपसन्नो गुरुकुले सत्यवादीसहस्रदः। अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च। यावदेते प्रपश्यन्ति पङ्क्त्यां तावत् पुनन्ति च। ततोहि पावनात् पाङ्क्त्या उच्यन्ते षङ्क्तिपावनाः। अनृ-त्विगनुपाध्यायः स चेदग्र्यासनं व्रजेत्। ऋत्विग्भिरन-नुज्ञातः पङ्क्त्या हरति दुष्कृतम्। अथ चेद्वेदवित्सर्वैः पङ्क्तिदोषैर्विवर्जितः। न च स्यात् पतितो राजन्पङक्तिपावन उच्यते” पाद्मे सर्ग खण्डे
३५ अ॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पङ्क्तिपावन¦ m. (-नः) A respectable or eminent person. E. पङ्क्ति, and पावन who purifies.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पङ्क्तिपावन/ पङ्क्ति--पावन mfn. purifying society , respectable ( opp. to दूष) Mn. MBh. etc.
