सामग्री पर जाएँ

पङ्क्तिपावनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पङ्क्तिपावनः, पुं, (पङ्क्तिं श्राद्धोपलक्षे भोज- नायोपविष्टानां वेदविद्याविशारदानां ब्राह्म- णानां श्रेणीं पुनाति पावयति वा स्वोपवेशने- नेति । पङ्क्ति + पावि + ल्युः ।) श्रेणिपवित्र- कर्त्ता । श्राद्धभोजनार्हब्राह्मणः । यथा, -- “इमे हि मनुजश्रेष्ठ ! विज्ञेयाः पङ्क्तिपावनाः । विद्यावेदव्रतस्नाता ब्राह्मणाः सर्व्व एव हि ॥ सदाचारपराश्चैव विज्ञेयाः पङ्क्तिपावनाः । मातापित्रोर्यश्च वश्यः श्रोत्रियो दश पूरुषः ॥ ऋतुकालाभिगामी च धर्म्मपत्नीषु यः सदा । वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत ॥ अथर्व्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः । सत्रवादी धर्म्मशीलः स्वकर्म्मनिरतश्च यः ॥ ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः । मखेषु च समस्तेषु भवन्त्यवभृथप्लुताः ॥ अक्रोधना ह्यचपलाः क्षान्ता दान्ता जितेन्द्रियाः । सर्व्वभूतहिता ये च श्राद्धेष्वेतान् निमन्त्रयेत् ॥ एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः । यतयो मोक्षधर्म्मज्ञा योगाः सुचरितव्रताः ॥ ये चेतिहासं प्रयताः श्रावयन्ति द्बिजोत्तमान् । ये च भाष्यविदः केचिद्ये च व्याकरणे रताः ॥ अधीयते पुराणं ये धर्म्मशास्त्राणि चाप्युत । अधीत्य च यथान्यायं विधिवत्तस्य कारिणः ॥ उपपन्नो गुरुकुले सत्यवादी सहस्रदः । अग्य्राः सर्व्वेषु वेदेषु सर्व्वप्रवचनेषु च ॥ यावदेते प्रपश्यन्ति पङ्क्त्यां तावत् पुनन्ति च । ततो हिपावनात् पङ्क्त्या उच्यन्ते पङ्क्तिपावनाः ॥ अनृत्विगनुपाध्यायः स चेदग्र्यासनं व्रजेत् । ऋत्विग्भिरननुज्ञातः पङ्क्त्या हरति दुष्कृतम् ॥ अथ चेद्वेदवित् सर्व्वैः पङ्क्तिदोषैर्व्विवर्ज्जितः । न च स्यात् पतितो राजन् ! पङ्क्तिपावन उच्यते ॥” इति पाद्मे स्वर्गखण्डे ३५ अध्यायः ॥ (पञ्चाग्निर्गृ हस्थः । यथाह हारीतः । “पवनः पावनस्त्रेता यस्य पञ्चाग्नयो गृहे । सायं प्रातः प्रदीप्यन्ते स विप्रः पङ्क्तिपावनः ॥”)

"https://sa.wiktionary.org/w/index.php?title=पङ्क्तिपावनः&oldid=145961" इत्यस्माद् प्रतिप्राप्तम्