पङ्गुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पङ्गुः, पुं, (खञ्जति गतिवैकल्यं प्राप्नोतीति । खजि गतिवैकल्ये । “बाहुलकात् कुः । खजयोः पगौ नुमागमश्च ।” उणां । १ । ३७ । इति पगौ नुमागमश्च । अस्य कक्षाया अत्युच्चतया बहु- कालेन राशिभागादिभोगात् मन्दगतित्वादस्य तथात्वम् ।) शनैश्चरः । इति शब्दमाला ॥ (परि- व्राट् । यथोक्तं चिन्तामणौ । “भिक्षार्थं गमनं यस्य विण्मूत्रकरणाय च । योजनान्न परं याति सर्व्वथा पङ्गुरेव सः ॥”)
पङ्गुः, त्रि, (खजि गतिवैकल्ये । बाहुलकात् कुः । खस्य पत्वे जस्य गादेशः नुम् च । उणां १ । ३७ ।) जङ्घावैकल्येन चलनाक्षमः । तत्पर्य्यायः । श्रोणः २ । इत्यमरः । २ । ६ । ४८ ॥ जङ्घाहीनः ३ । इति शब्दरत्नावली ॥ (यथा, महाभारते २ । ५ । १२५ । “कञ्चिदन्घांश्च मूकांश्च पङ्गून् व्यङ्गानबान्धवान् । पितेव पासि धर्म्मज्ञ ! तथा प्रव्रजितानपि ॥” यानहरणेनैव लोकः पङ्गुर्भवति । यथा, मार्क- ण्डेये । १५ । ३१ । “पुष्पापहृद्दरिद्रश्च पङ्गुर्यानापहृन्नरः ॥”) अस्य लक्षणं खञ्जशब्दे द्रष्टव्यम् ॥
