सामग्री पर जाएँ

पज्झटिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पज्झटिका, स्त्री, (छन्दोविशेषः । तल्लक्षणं यथा, “प्रतिपदयमकितषोडशमात्रा नवमगुरुत्वविभूषितगात्रा । पज्झटिका पुनरत्र विवेकः क्वापि न मध्यगुरुर्गण एकः ॥” उदाहरणं यथा, -- “तरलवतंसाश्लिष्टस्कन्ध- श्चलतरपज्झटिकाकटिबन्धः । मौलिचपलशिखिचन्द्रकवृन्दः कालियशिरसि ननर्त्त मुकुन्दः ॥” इति छन्दोमञ्जर्य्यां मात्रावृत्ताख्यः ५ स्तवकः ॥ (तथा च भगवच्छङ्कराचार्य्यकृतमोहमुद्गरे ४ । “मा कुरु धनजनयौवनगर्व्वम् हरति निमेषात् कालः सर्व्वम् । मायामयमिदमखिलं हित्वा ब्रह्मपदं प्रविशाशु विदित्वा ॥” * ॥) क्षुद्रघण्टिका । इति छन्दोमञ्जरीटीका ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पज्झटिका¦ स्त्री
“प्रतिपद यमकितषोडशमात्रा नवमगुरुत्वविभूषितगात्रा। पज्झटिकाया एष बिवेकः क्वापि नमध्यगुरुर्गणएकः” वृ॰ र॰ उक्ते मात्रावृत्तभेदे।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पज्झटिका [pajjhaṭikā], 1 A small bell.

N. of a metre; Śabda Ch.

"https://sa.wiktionary.org/w/index.php?title=पज्झटिका&oldid=406611" इत्यस्माद् प्रतिप्राप्तम्