सामग्री पर जाएँ

पञ्चकपालः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चकपालः, पुं, पञ्चसु कपालेषु संस्कृतः पुरो- डाशः । (“संस्कृतं भक्षाः ।” ४ । २ । १६ । इत्यण् ततो “द्विगोर्लुगनपत्ये ।” ४ । १ । ८८ । इत्यणो लुक् ।) स तु यज्ञविशेषः । यथा । “परा वा एष यज्ञं पशून् वपति योऽग्निमुद्वासयते पञ्च- कपालः पुरोडाशो भवति ।” इत्यादि यजुर्वेदीय- श्रुतिः ॥ (पञ्चानां कपालानां समाहारः । पर- निपातः ।) कपालपञ्चके, क्ली ॥

"https://sa.wiktionary.org/w/index.php?title=पञ्चकपालः&oldid=146007" इत्यस्माद् प्रतिप्राप्तम्