सामग्री पर जाएँ

पञ्चकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चकम्, त्रि, (पञ्चैव इति स्वार्थे कन् ।) पञ्च । यथा, भाषापरिच्छेदे । ३३ । “संख्यादि- पञ्चकं कालदिशोः शब्दश्च ते च खे ।” इति ॥ (पञ्च संख्यापरिमाणमस्य । “तदस्य परि- माणम् ।” ५ । १ । ५७ । इत्यनुवृत्तौ “संख्यायाः संज्ञा संङ्घसूत्राध्ययनेषु ।” ५ । १ । ५८ । इति पञ्चसङ्ख्यापरिमिति संघार्थे कन् प्रत्ययः । धनि- ष्ठादि पञ्चनक्षत्रम् । यथाह चिन्तामणिः । “अग्निचौरभयं रोगो राजपीडा धनक्षतिः । संग्रहे तृणकाष्ठानां कृते वस्वादिपञ्चके ॥” पञ्चभिः क्रीतम् । “संख्याया अतिशदन्तायाः कन् ।” ५ । १ । १२ । इति कन् । पञ्चभिः क्रीते द्रव्यविशेषे ॥)

"https://sa.wiktionary.org/w/index.php?title=पञ्चकम्&oldid=146005" इत्यस्माद् प्रतिप्राप्तम्