पञ्चकोषाः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चकोषाः, पुं, (पञ्च च ते कोषाश्चेति ।) कोषा इवात्माच्छादकत्वेन कोषाः । ते च पञ्चविधाः । यथा । अन्नविकारत्वात् स्थूलशरीरं अन्नमय- कोषः १ ॥ पञ्चकर्म्मेन्द्रियसहितप्राणपञ्चकं प्राण- मयकोषः २ ॥ पञ्चज्ञानेन्द्रियसहितं मनः मनो- मयकोषः ३ ॥ पञ्चज्ञानेन्द्रियसहिता बुद्धिः विज्ञानमयकोषः ४ ॥ अहङ्कारात्मकोऽविद्या- त्मको वा आनन्दमयकोषः ५ ॥ इति शिव- गीतामतम् ॥ * ॥ अपि च । “पितृभुक्तान्नजाद्वीर्य्याज्जातोऽन्नेनैव वद्धते । देहः सोऽन्नमयो नात्मा प्राक् चोर्द्ध्वं तदभावतः ॥” इत्यन्नमयकोषः १ ॥ “पूर्णो देहे वलं यच्छन्नक्षाणां यः प्रवर्त्तकः । वायुः प्राणमयो नासावात्मा चैतन्यवर्ज्जनात् ॥” इति प्राणमयकोषः २ ॥ “अहन्तां ममतां देहे गृहादौ च करोति यः । कामाद्यवस्थया भ्रान्तो नासावात्मा मनोमयः ॥” इति मनोमयकोषः ३ ॥ “लीना सुप्तौ वपुर्बोधे व्याप्नुयादानखाग्रगा । चिच्छायोपेतधीर्नात्मा विज्ञानमयशब्दभाक् ॥” इति विज्ञानमयकोषः ४ ॥ “काचिदन्तर्मुखावृत्तिरानन्दप्रतिविम्बभाक् । पुण्यभोगे भोगशान्तौ निद्रारूपेण लीयते ॥ कादाचित्कत्वतो नात्मा स्यादानन्दमयोऽप्ययम् ॥” इत्यानन्दमयकोषः ५ ॥ इति पञ्चदशी ॥
