पञ्चगव्यम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चगव्यम्, क्ली, (गोर्विकारः गव्यम् । पञ्चगुणितं गव्यम् ।) गोसम्बन्धिपञ्चप्रकारद्रव्यम् । (यथा, मनुः । ११ । १६५ । “भक्ष्यभोज्यापहरणे यानशय्यासनस्य च । पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनम् ॥”) तत्तु गोमयगोमूत्रदुग्धदधिघृतरूपम् । यथा, -- “पञ्चगव्यं दधिक्षीरघृतगोमूत्रगोमयैः ।” इति शब्दचन्द्रिका ॥ * ॥ तत्परिमाणं यथा, -- “पलमात्रं दुग्धभागं गोमूत्रं तावदिष्यते । घृतञ्च पलमात्रं स्यात् गोमयं तोलकत्रयम् ॥ दधि प्रसृतमात्रं स्यात् पञ्चगव्यमिदं स्मृतम् । अथवा पञ्चगव्यानां समानो भाग इष्यते ॥” इति गौतमीयतन्त्रम् ॥ * ॥ अपि च । “गोशकृद्द्विगुणं मूत्रं पयः स्यात्तच्चतुर्गुणम् । घृतं तद्द्विगुणं प्रोक्तं पञ्चगव्यं तथा दधि ॥” * ॥ तस्य पानफलं यथा, -- “पञ्चगव्येन पूतन्तु वाजिमेधफलं लभेत् । गव्यन्तु परमं मेध्यं गव्यादन्यन्न विद्यते ॥ सौम्ये मुहूर्त्ते संयुक्ते पञ्चगव्यन्तु यः पिबेत् । यावज्जीवकृतात् पापात् तत्क्षणादेव मुच्यते ॥” गव्यानां देवप्रीतिकरत्वं यथा, -- “दध्ना हि त्रिदशाः सर्व्वे क्षीरेण च महेश्वरः । घृतेन पावको नित्यं पायसेन पितामहः ॥ सकृद्दत्तेन प्रीयन्ते वर्षाणाञ्च त्रयोदश । तां दत्त्वा चैव पीत्वा च प्रेतो मेध्यस्तु जायते ॥” इति वराहपुराणम् ॥ * ॥ तस्य विशेषो यथा, -- “पयः काञ्चनवर्णायाः श्बेतवर्णोत्थगोमयम् । गोमूत्रं ताम्रवर्णाया नीलवर्णाभवं घृतम् ॥ दधि स्यात् कृष्णवर्णाया दर्भोदकसमायुतम् । गोमूत्रमाषकाण्यष्टौ गोमयस्य चतुष्टयम् ॥ क्षीरस्य द्बादश प्रोक्ता दध्नस्तु दश उच्यते । घृतस्य माषकाः पञ्च पञ्चगव्यं मलापहम् ॥” इति गारुडे प्रायश्चित्तप्रकरणम् ॥
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a mixture of 5 secretions of the cow for purifying the body; फलकम्:F1: M. ५६. 6; ५७, 5; ६०. १७; ६२. 8.फलकम्:/F milk, curd, ghee, urine and dung of the cow, constituents; फलकम्:F2: Ib. २६६. 6; २६७. 5-6; वा. ११०. १५.फलकम्:/F a panacea for stealing eatables, fruits and flowers, vehicles and beds; फलकम्:F3: M. २२७. ४४.फलकम्:/F ablution of image to be installed by. फलकम्:F4: Ib. २६५. 8.फलकम्:/F
