पञ्चजन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चजनः, पुं, (पञ्चभिर्भूतैर्जन्यतेऽसौ । पञ्च + जन् + कर्म्मणि घञ् । “जनिवध्योश्च” । ७ । ३ । ३५ । इति न वृद्धिः ।) पुरुषः । इत्यमरः । २ । ६ । १ ॥ (यथा, राजतरङ्गिण्याम् । ३ । ३५५ । “सद्भावश्र्यादिका देव्यस्तेन श्रीशब्दलाञ्छिताः । पञ्च पञ्चजनेन्द्रेण पुरे तस्मिन् निवेशिताः ॥”) दैत्यविशेषः । स च संह्रादस्य कृतौ पत्न्यां जातः । (यथा, श्रीभागवते । ६ । १८ । १४ । “संह्रादस्य कृतिर्भार्य्याऽसूत पञ्चजनं ततः ॥” अपरो दैत्यभेदः । श्रीकृष्णः एनं हत्वा सान्दी- पनिमुनये अस्य मृतं पुत्त्रं गुरुदक्षिणास्वरूपं ददौ । यथा, भागवते । ३ । ३ । २ । “सान्दीपनेः सकृत् प्रोक्तं ब्रह्माधीत्य सविस्तरम् । तस्मै प्रादात् वरं पुत्त्रं मृतं पञ्चजनोदरात् ॥”) अस्यास्थ्ना पाञ्चजन्यनामा शङ्खो जातः । सच श्रीकृष्णस्य । यथा, -- “पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ॥” इत्यादि श्रीभगवद्गीतायाम् । १ । १५ ॥ (प्रजा- पतिः । यथा, भागवते । ६ । ४ । ५१ । “एषा पञ्चजनस्याङ्ग ! दुहिता वै प्रजापतेः । असिक्नी नाम पत्नीत्वे प्रजेश ! प्रतिगृह्यताम् ॥” सगरराजपुत्त्रः । यथा, हरिवंशे । १५ । ६ । “केशिन्यसूत सगरादसमञ्जसमात्मजम् । राजा पञ्चजनो नाम बभूव स महाबलः ॥” गन्धर्ब्बाः पितरो देवा असुरा रक्षांसि पञ्चजन- पदवाच्यानि भवन्ति । इति चिन्तामणिः ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चजन पुं।
पुरुषः
समानार्थक:पुमाम्स,पञ्चजन,पुरुष,पूरुष,नर,क्षेत्रज्ञ,धव
2।6।1।2।2
मनुष्या मानुषा मर्त्या मनुजा मानवा नराः। स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः॥
पत्नी : स्त्री
सम्बन्धि2 : पुरुषलिङ्गः,दाढिका
वैशिष्ट्यवत् : पुरुषप्रमाणम्
: द्व्यूढापतिः, कन्यकासुतः, पितृष्वसुः_सुतः, मातृष्वसुः_सुतः, अपरमातृसुतः, पिता, पत्युर्वा_पत्न्याः_वा_पिता, पितुर्भ्राता, मातुर्भ्राता, पत्नीभ्राता, पत्युः_कनिष्ठभ्राता, भगिनीसुताः, पुत्र्याः_पतिः, पितुः_पिता, पितामहस्य_पिता, मातुः_पिता, मातामहस्य_पिता, एकोदरभ्राता, पतिः, मुख्यादन्यभर्ता, बालः, वृद्धः, ज्येष्ठभ्राता, कनिष्ठभ्राता, निर्बलः, बलवान्, स्थूलोदरः, चिपिटनासः, प्रशस्तकेशः, श्लथचर्मवान्, स्वभावन्यूनाधिकाङ्गः, ह्रस्वः, तीक्ष्णनासिकः, गतनासिकः, पशुखुरणसदृशनासिकः, विरलजानुकः, ऊर्ध्वजानुकः, संलग्नजानुकः, श्रवणशक्तिहीनः, कुब्जः, रोगादिना_वक्रकरः, अल्पशरीरः, जङ्घाहीनः, खण्डितकेशः, उन्नतनाभियुक्तपुरुषः, परिवेत्तुर्ज्येष्ठभ्राता, ऋणं_दत्वा_तद्वृत्याजीविपुरुषः, कृषीवलः, कालेप्यश्मश्रुः_पुरुषः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चजन¦ पु॰ पञ्चभिः भूतैर्जन्यते जन--घञ्, न वृद्धिः।
१ मनुष्येअमरः।
२ मनुष्यसम्बन्धिनि प्राणादौ
३ मनुष्यतुल्ये देवादौ
४ मनुष्यभेदे ब्राह्मणादौ च शा॰ सू॰ भाष्यम् तथाहि
“यस्मिन् पञ्च पञ्च जना अ काशश्च प्रतिष्ठितः” तद्धृतवेदमन्त्रे
“प्रञ्च पञ्च शब्दशब्देन पञ्चविंशतितत्त्वान्युच्यन्ते” इतिसांख्यमतनिराकरणेन पञ्चजनशब्दस्य प्राणादिपरत्वंसमर्थितं दिङ्मात्रमत्रोच्यते
“कथं तर्हि पञ्च पञ्चजना इति, उच्यते,
“दिक्सङ्ख्येसंज्ञायामिति” पा॰ विशेषस्मरणात् मंज्ञायामेव पञ्चशब्दस्यजनशब्देन समासः, ततश्च रूढत्वाभिप्रायेणैव केचित्पञ्चजना नाम विवक्ष्यन्ते, न साङ्ख्यतत्त्वाभिप्रायेण, तेकतीत्यस्यामाकाङ्क्षायां पुनः पञ्चेति प्रयुज्यते, पञ्चजनानाम केचित्, ते च पञ्चेत्यर्थः सप्तर्षयः सप्तेति यथा। के पुनस्ते पञ्चजना नामेति तदुच्यते।
“प्राणादयोवाक्यशेषात्” शा॰ सू॰
“यस्मिन् पञ्च पञ्चजना इत्यत उत्तर-स्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणाय प्राणादयः पञ्च निर्दिष्टाः
“प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्चोत्रस्य श्रोत्रमन्नस्यान्नंषनसो ये मनो विदुः” इत्यत्र वाक्यशेषगताः सन्निधानात्पन्चजना विवक्ष्यन्ते। कथं पुनः प्राणादिषु पञ्चजन-शब्दप्रयोगः तत्त्वेषु वा कथं जनशब्दप्रयोगः समाने[Page4185-b+ 38] तु प्रसिद्ध्यतिक्रमे वाक्यशेषवशात् प्राणादय एव ग्रही-तव्या भवन्ति जनसम्बन्धाच्च प्राणादयो जनशब्दभाजोभवन्ति। जनवचनश्च पुरुषशब्दः प्राणेषु प्रयुक्तः,
“ते वाएते पञ्च ब्रह्म पुरुषाः” इति, अत्र
“प्राणो ह पिताप्राणो ह माता” इत्यादि च ब्राह्मणम्। समासबलाच्चसमुदायस्य रूढत्वमविरुद्धम्। कथं पुनरसति प्रथम-प्रयोगे रूढिः शक्याश्रयितुं शक्या, उद्भिदादिवदित्याह। प्रसिद्धार्यसन्निधानेन ह्यप्रसिद्धार्थः शब्दः प्रयुज्यमानःसमभिव्याहारात् तद्विषयो नियम्यते यथोद्भिदा यजेतुयूपं चिनत्ति, वेदिं करोतीति। तथाऽयमपि पञ्चजन-शब्दः समासान्वाख्यानादवगतसंज्ञाभावः सेज्ञ्याकाङ्क्षीवाक्यशेषसमभिव्याहृतेषु प्राणादिषु वर्त्तिष्यते। कैश्चित्तुदेवाः पितरो गन्धर्वा असुरा रक्षांसि च पञ्च पञ्च जनाव्याख्याताः। अन्यैश्चत्वारो वर्णा निषादपञ्चमाः परि-गृहीताः”। तत्परिग्रहेऽपीह न कश्चिद्विरोधः। आचार्यस्तु न पञ्चविंशतेस्तत्त्वानामिह प्रतीतिरस्तीत्येवं-परतया प्राणादयो वाक्यशेषादिति जगाद”।
२ दैत्यभेदे च यस्यास्थ्ना कृष्णस्य पाञ्चजन्यः शङ्घोजातः। पाञ्चजन्यशब्दे दृश्यम्।
३ सृञ्जयनृपपुत्रे हरिवं॰
३२ अ॰अंशुमतः पितरि मगधनृपस्य
४ पुत्रभेदे
१५
० अ॰।
५ प्रजापतिभेदे भाग॰
६ ।
४ ।
४६ विश्वावसुदुहितरि भरतस्य
६ पत्न्यां स्त्री ङीप्। भाग॰
५ ।
७ ।
१
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चजन¦ m. (-नः)
1. Man is general, a man.
2. The name of a demon, whose bones became the Conch Pa4nchajanya, the shell of [Page412-b+ 60] KRISHN4A. f. (-नी) An assemblage of five persons E. पञ्च five, (elements,) and जन who is born.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चजन/ पञ्च--जन m. ( pl. )the 5 classes of beings (viz. gods , men , गन्धर्वs and अप्सरस्, serpents , and पितृs) TS. S3Br. etc. man , mankind Hcar. (613618 ने-न्द्रm. prince , king Ra1jat. )
पञ्चजन/ पञ्च--जन m. ( ibc. )the 5 elements MBh.
पञ्चजन/ पञ्च--जन m. N. of a demon slain by कृष्णMBh. R. etc. (See. पाञ्चजन्य)
पञ्चजन/ पञ्च--जन m. of a son of संह्रादby कृतिBhP.
पञ्चजन/ पञ्च--जन m. of a प्रजापतिib.
पञ्चजन/ पञ्च--जन m. of a son of सगरby केशिनीHariv.
पञ्चजन/ पञ्च--जन m. of a son of सृञ्जयand father of सोम-दत्तib.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--an asura in the form of a conch in the प्रभास. Son of सम्ह्राद and कृती, and father of Asikni. He seized the son of सान्दिपन (or सान्दीपनी) and devour- ed him. कृष्ण plunged into the sea and killing him, remov- ed the conch which covered his body. फलकम्:F1: भा. III. 3. 2; VI. 4. ५१; १८. १४; X. ४५. ४०-42. Vi. V. २१. २७-8.फलकम्:/F Killed in प्राग्- ज्योतिष. फलकम्:F2: Ib. V. २९. १९.फलकम्:/F
(II)--a son of Sagara. Br. III. ६३. १४७.
(III)--the father of अम्शुमान् and father- in-law of यशोदा. M. १५. १८.
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
PAÑCAJANA : A Prajāpati. He gave his daughter Pañcajanī (Asiknī) in marriage to the great sage and law-giver Dakṣa. (6th Skandha, Bhāgavata).
_______________________________
*8th word in left half of page 548 (+offset) in original book.
