सामग्री पर जाएँ

पञ्चतत्त्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चतत्त्वम्, क्ली, (पञ्चानां तत्त्वानां समाहारः ।) पञ्चभूतम् । इति स्वरोदयः ॥ पञ्चमकारः । मद्य- मांसमत्स्यमुद्रामैथुनरूपम् । यथा, -- “मद्यं मांसं तथा मत्स्यं मुद्रां मैथुनमेव च । पञ्चतत्त्वमिदं देवि ! निर्व्वाणमुक्तिहेतवे ॥ मकारपञ्चकं देवि ! देवानामपि दुर्लभम् ॥” इति कैवल्यतन्त्रे प्रथमपटलः ॥ वैष्णवानां यथा, -- “तत्त्वज्ञानमिदं प्रोक्तं वैष्णवे शृणु यत्नतः । गुरुतत्त्वं मन्त्रतत्त्वं मनस्तौत्त्वं सुरेश्वरि ! ॥ देवतत्त्वं ध्यानतत्त्वं पञ्चतत्त्वं वरानने ! । तत्रादौ श्रीगुरोस्तत्त्वं स्नेहाद्वक्ष्यामि पार्व्वति ! ॥ सतैलं वर्त्तिकायुक्तं देहस्थं ब्रह्मतेजसम् । गुरुणा मन्त्रदानेन तत्सूत्रं दीपितं भवेत् ॥ देवतायाः शरीरं हि मन्त्रादुत्पद्यते ध्रुवम् । अत एव हि तस्यात्मा देवरूपो न संशयः ॥ ईश्वरस्य तु यद्बीर्य्यं तदेव अक्षयात्मकम् । तेन वर्णात्मकं देहं जन्तोरेव न संशयः ॥ मन्त्रवर्णे सर्व्ववर्णमयास्ते परमेश्वरि ! । वर्णतत्त्वमिदं देवि ! सर्व्वस्वं मम यद्भवेत् ॥ स्वयं देवो न चान्योऽस्मि निर्म्मलो देवरूपकः । सर्व्वत्र देवतां ध्यायेत् तृणगुल्मलतादिषु ॥ ध्यानेन लभते सर्व्वं ध्यानेन विष्णुरूपकः । ध्यानेन सिद्धिमाप्नोति विना ध्यानं न सिध्यति ॥ इति ते कथितं तत्त्वं वैष्णवस्य सुरेश्वरि ! । यज्ज्ञानादमरत्वञ्च विष्णुरूपो भवेन्नरः ॥ ते नरा नहि गच्छन्ति कदाचिद्यममन्दिरम् ॥” इति निर्व्वाणतन्त्रे १२ पटलः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चतत्त्व¦ पु॰ न॰ पञ्चानां तत्त्वानां समाहारः। पञ्चसु भूतेषुस्वरोदयः।
“मद्यं मांसं तथा मत्स्यो मुद्रा मैथुनमेवच। पञ्चतत्त्वमिदं प्रोक्तं देवि! निर्वाणहेतवे। मकारपञ्चकं देवि! देवानामपि दुर्लभम्”
“पञ्चतत्त्वविहीनानांकलौ सिद्धिर्न जायते” तन्त्रसा॰। वैष्णवानान्तु
“गुरु-तत्त्वं मन्त्रतत्त्वं मनस्तत्त्वं सुरेश्वरि!। देवतत्त्वं ध्या-नतत्त्वं पञ्चतत्त्वं प्रकीर्त्तितम्” निर्वाणतन्त्रे।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चतत्त्व/ पञ्च--तत्त्व n. the 5 elements collectively(See. तत्त्व) L.

पञ्चतत्त्व/ पञ्च--तत्त्व n. (in the तन्त्रs) the 5 essentials(= पञ्च-मकारSee. )

"https://sa.wiktionary.org/w/index.php?title=पञ्चतत्त्व&oldid=407099" इत्यस्माद् प्रतिप्राप्तम्