सामग्री पर जाएँ

पञ्चतीर्थी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चतीर्थी, स्त्री, (पञ्चानां तीर्थानां समहारः । ङीप् ।) तीर्थपञ्चकम् । यथा । “विषुवद्दिवसे प्राप्ते पञ्चतीर्थीविधानतः ।” इति तिथितत्त्वम् । पञ्चतीर्थान्याह । (तानि च भिन्नदेशे भिन्न- रूपाणि, तत्र काशीस्थानि । यथा, काशीखण्डे । १०० । ३९ -- ४० । “ज्ञानवापीमुपस्पृश्य नन्दिकेशं ततोऽर्चयेत् । तारकेशं ततोऽभ्यर्च्य महाकालेश्वरं ततः ॥ ततः पुनर्दण्डपाणिमित्येषा पञ्चतीर्थिका ॥”) पुरुषोत्तमस्थानि यथा, -- “मार्कण्डेये वटे कृष्णे रौहिणेये महोदधौ । इन्द्रद्युम्नसरः स्नात्वा पुनर्जन्म न विद्यते ॥” इति तीर्थतत्त्वम् ॥ * ॥ अपि च । नाना- स्थानस्थानि यथा, -- “पृथिव्यां यानि तीर्थानि सर्व्वाण्येवाभिषेचनात् । तत्पञ्चतीर्थस्नानेन समं नास्त्यत्र संशयः ॥ एकादश्याञ्च विश्रान्तौ द्वादश्यां शौकरे तथा । त्रयोदश्यां नैमिषे च प्रयागे च चतुर्द्दशी ॥ कार्त्तिक्यां पुष्करे चैव कार्त्तिकस्य सितासिते । कालेष्वेषु नरः स्नात्वा सर्व्वं पापं व्यपोहति ॥” इति वराहपुराणम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चतीर्थी¦ स्त्री पञ्चानां तीर्थानां समाहारः ङीप्। तीर्थ-पञ्चके सा च तीर्थभेदे भिन्नभिन्नरूपा तत्र काशीस्था यथा
“ज्ञानवापीमुपस्पृश्य नन्दिकेशं ततोऽर्चयेत्। तारकेशंततोऽभ्यर्च्य महाकालेश्वरं ततः। ततः पुनर्दण्डपाणि-रित्येषा पञ्चतीर्थिका” काशीख॰

१०

० अ॰। पुरुषोत्तमस्थायथा
“मार्कण्डयवटे कृष्णे रौहिणेये महोदधौ। इन्द्रद्युम्नसरः स्नात्वा पुनर्जन्म न विद्यते” गयास्थायथा उत्तरमानसदक्षिणश्चमानसकनखलधर्मवनफल्गु-तीर्थात्मिका। तत्र वायुपु॰ उदिच्यां प्रसिद्धमित्युक्तम्वह्निपु॰
“उदिच्यां मूञ्जपृष्ठस्य देवर्षिगणसेवितम्। नाम्ला धर्मवनं तीर्थं त्रिषु लोकेषु विश्रुतम्” इत्युक्तं[Page4186-b+ 38] तेन धर्मवनस्यैव तत्र ग्राह्यता तेनैव पञ्चसंख्यायाःपूरणात्। नानास्थानस्थिता वराहपु॰ उक्ता यथा
“पृथिव्यां यानि तीर्थानि सर्वाण्येवाभिषेचनात्। तत् पञ्चतीर्थीस्नानेन समं नास्त्यत्र संशयः। एका-दश्यां च विश्रान्तौ

१ द्वादश्यां शौकरे

२ तथा। त्रयो-दग्यां नैमिषे

३ च प्रयागे

४ च चतुर्दशी। कार्त्तिक्यां पुष्करे

५ चैव कार्त्तिकस्य सितासिते। कालेष्वेषु नरः स्नात्वासर्वं पापं व्यपोहति”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चतीर्थी¦ f. (-र्थी)
1. Any five principal places of pilgrimage, especially Visra4nti, Saukara, Naimisha, Praya4ga and Pushkara.
2. Bathing on the day of the equinox. E. पञ्च, and तीर्थ a shrine, affix ङीप् |

"https://sa.wiktionary.org/w/index.php?title=पञ्चतीर्थी&oldid=407163" इत्यस्माद् प्रतिप्राप्तम्