पञ्चनखः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चनखः, पुं, (पञ्च नखा यस्य ।) हस्ती । कूर्म्मः । इति हेमचन्द्रः ॥ व्याघ्रः । इति राजनिर्घण्टः ॥ * ॥ भक्षणीयपञ्चनखा यथा, -- “शशकः शल्लकी गोधा खड्गी कूर्म्मश्च पञ्चमः ॥” इति स्मृतिः ॥ (तथाच याज्ञवल्क्यः । १ । १७७ । “भक्ष्याः पञ्चनखाः सेघागोधाकच्छपशल्लकाः । शशश्च मतस्येय्वपि हि सिंहतुण्डकरोहिताः ॥”) “पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृतजैर्द्विजैः । कौशल्याज ! शशादीनां तेषां नैकोऽप्यहं कपिः ॥” इति भट्टिः । ६ । १३१ ॥
