सामग्री पर जाएँ

पञ्चनदः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चनदः, पुं, (पञ्च पञ्चसङ्ख्याकाः नद्यः सन्त्यत्र । समासे टच् ।) पञ्चनदीयुक्तदेशविशेषः । पञ्जाव इति पारस्यभाषा । तस्यनामान्तरम् । वाह्लीकः मद्रदेशश्च । ता नद्यो यथा । शतद्रुः १ विपाशा २ इरावती ३ चन्द्रभागा ४ वितस्ता ५ । इति पुराणम् ॥ (यथा, राजतरङ्गिण्याम् । ४ । २४८ । “रुद्धः पञ्चनदे जातु दुस्तरैः सिन्धुसङ्गमैः ॥”) पञ्चानां नदीनां समाहारे क्ली ॥ (यथा, रामायणे । ३ । ४३ । २१ । “ततः पञ्चनदं कृत्स्नं विचेतव्यं समन्ततः ॥” तच्च काशीस्थनदीपञ्चकरूपं तीर्थम् । यथा, काशीखण्डे । ५९ । ११३ -- ११६ । “किरणाधूतपापे च तस्मिन् धर्म्मनदे शुभे । स्रवन्त्यौ पापसंहर्त्त्र्यौ वाराणस्यां शुभद्रवे ॥ ततो भागीरथी प्राप्ता तेन दैलीपिना सह । भागीरथी समायाता यमुना च सरस्वती ॥ किरणाधूतपापा च पुण्यतोया सरस्वती । गङ्गा च यमुना चैव पञ्चनद्योऽत्र कीर्त्तिताः । अतः पञ्चनदं नाम तीर्थं त्रैलोक्यविशुतम् ॥” तीर्थविशेषः । यथा, महाभारते । ३ । ८२ । ७९ । “अथ पञ्चनदं गत्वा नियतो नियताशनः । पञ्चयज्ञानवाप्नोति क्रमशो येऽनुकीर्त्तिताः ॥” असुरभेदः । यथा, हरिवंशे । १२० । ८८ । “हत्वा पञ्चनदं नाम नरकस्य महासुरम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पञ्चनदः&oldid=146071" इत्यस्माद् प्रतिप्राप्तम्