सामग्री पर जाएँ

पञ्चपक्षिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चपक्षी, [न्] पुं, (अकारादि-ओकारान्ताः ऐउएओरूपाः पञ्चस्वराः पक्षिणः पक्षि- स्वरूपा यत्र ।) पारिभाषिकपक्षिपञ्चकद्वारा त्रिकालबोधकप्रश्नग्रन्थः । यथा, -- “प्रणम्य श्रीमहादेबं सर्व्वशास्त्रविशारदम् । भविष्यदर्थबोधाय पप्रच्छुर्म्मुनयो मुदा ॥ तेषां वचनमाकर्ण्य निजगाद महेश्वरः । त्रिकालज्ञानबोधार्थं पञ्चपक्षी प्रदर्श्यते ॥ अनेन शास्त्रसारेण लोकैः कालत्रयं प्रति । बलाबलानि दृश्यन्ते सर्व्वकार्य्येषु निश्चितः ॥ आगतं प्रच्छकं दृष्ट्वा दैवज्ञः सावधानतः । यद्यत् करोति कर्म्माणि तस्मात् सर्व्वं विचारयेत् ॥ काके भोक्तरि यात्रायां ताम्रचूडः शिखी नृपः । निद्रायां रमते श्येनः कुब्जः कालवशं गतः ॥ * ॥ कुब्जे भोक्तरि यात्रायां वायसः कुक्कुटो नृपः । नीलकण्ठस्तथा स्वापी श्येनो मृत्युवशं गतः ॥” इति शुक्लपक्षस्य दिवाक्रमः कृष्णपक्षस्य रात्रि- क्रमश्च ॥ * ॥ स्वरोऽपि यथा । अहिपुरेभोः । गोकरिपुरे । एकोनरिपुः । उपेन्द्रो हरिः । विष्णुस्ते लोकः ॥ * ॥ “इत्युक्तं पक्षिणां कार्य्यं लाभालाभं शुभाशुभम् । येन विज्ञानमात्रेण त्रिकालज्ञो भवेन्नरः ॥ तावद्गर्ज्जन्ति शास्त्राणि शकुनानामनेकशः । यावन्न श्रूयते पक्षिशकुनं शङ्करोदितम् ॥” इति श्रीमहादेवविरचितं पञ्चपक्षिशाकुनं समाप्तम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चपक्षिन्¦ पु॰ शिवोक्ते पक्षिपञ्चकाधिकारेण प्रश्नादिज्ञा-नार्थे शाकुनशास्त्रभेदे
“अक्षरं पक्षिभूतञ्च दिगदैवत-दिनानि च। कालं वर्णं बलं मित्रं धातुलिङ्गादिकंक्रमात्। प्रश्नादिजातिवर्णञ्च देहसङ्कल्पनादिभिः। चिन्तितान्यपि सर्वाणि वक्ष्यन्ते वर्णकौ क्रमात्। शकु-नस्य क्रमागत्या द्यूते युद्धे जयादिषु। आरूढपश्न-[Page4187-b+ 38] लग्नेभ्यः प्रथमाचरतोऽपि वा। अकारादिस्वराणाञ्चपञ्चानाञ्च विचारयेत्। अस्य नामाक्षरस्यांदौ स्वरारूढंसमुत्सृजेत्। प्रच्छकस्य वचः श्रुत्वा ग्राह्योवर्णः स्वर-स्तथा। स्वरेण कल्पयेद्वारं वारात् पक्षी प्रजायते। पक्षिणो जायते वाक्यं वाक्याच्च फलसम्भवः। अकाराद्या ओकारान्ताः स्वराः पञ्च प्रकीर्त्तिताः। भुक्त्यर्थं कल्पयेद्रूपं स्वरास्ते पक्षिरूपिणः। अकारःश्येन आख्यात इकारः पिङ्गलस्तथा। उकारंवायसश्चैव एकारस्ताम्रशेखरः। ओकारो नीलकण्ठश्चस्वरास्ते पक्षिसंज्ञकाः। अकारः पूर्वदिग्भागे इका-रश्चैव दक्षिणे। उकारः पश्चिमे ज्ञेय एकारश्चोत्तरेतथा। शेषस्थानेषु सर्वेषु ओकारः परिकीर्त्तितः। प्राक्श्येनः, पिङ्गलो याम्ये, पश्चिमे काक उच्यते। उत्तरेताम्रचूडश्च, कलापी मध्यगो मतः” इत्यादि अस्य फला-दिकं तत्र दृश्यम् विस्तरभयान्नोक्तम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चपक्षिन्/ पञ्च--पक्षिन् m. or n. (?) , N. of a small wk. containing auguries ascribed to शिव(in which the 5 vowels अ, इ, उ, ए, ओare connected with 5 birds) L.

"https://sa.wiktionary.org/w/index.php?title=पञ्चपक्षिन्&oldid=407461" इत्यस्माद् प्रतिप्राप्तम्