सामग्री पर जाएँ

पञ्चपक्षी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चपक्षी, [न्] पुं, (अकारादि-ओकारान्ताः ऐउएओरूपाः पञ्चस्वराः पक्षिणः पक्षि- स्वरूपा यत्र ।) पारिभाषिकपक्षिपञ्चकद्वारा त्रिकालबोधकप्रश्नग्रन्थः । यथा, -- “प्रणम्य श्रीमहादेबं सर्व्वशास्त्रविशारदम् । भविष्यदर्थबोधाय पप्रच्छुर्म्मुनयो मुदा ॥ तेषां वचनमाकर्ण्य निजगाद महेश्वरः । त्रिकालज्ञानबोधार्थं पञ्चपक्षी प्रदर्श्यते ॥ अनेन शास्त्रसारेण लोकैः कालत्रयं प्रति । बलाबलानि दृश्यन्ते सर्व्वकार्य्येषु निश्चितः ॥ आगतं प्रच्छकं दृष्ट्वा दैवज्ञः सावधानतः । यद्यत् करोति कर्म्माणि तस्मात् सर्व्वं विचारयेत् ॥ काके भोक्तरि यात्रायां ताम्रचूडः शिखी नृपः । निद्रायां रमते श्येनः कुब्जः कालवशं गतः ॥ * ॥ कुब्जे भोक्तरि यात्रायां वायसः कुक्कुटो नृपः । नीलकण्ठस्तथा स्वापी श्येनो मृत्युवशं गतः ॥” इति शुक्लपक्षस्य दिवाक्रमः कृष्णपक्षस्य रात्रि- क्रमश्च ॥ * ॥ स्वरोऽपि यथा । अहिपुरेभोः । गोकरिपुरे । एकोनरिपुः । उपेन्द्रो हरिः । विष्णुस्ते लोकः ॥ * ॥ “इत्युक्तं पक्षिणां कार्य्यं लाभालाभं शुभाशुभम् । येन विज्ञानमात्रेण त्रिकालज्ञो भवेन्नरः ॥ तावद्गर्ज्जन्ति शास्त्राणि शकुनानामनेकशः । यावन्न श्रूयते पक्षिशकुनं शङ्करोदितम् ॥” इति श्रीमहादेवविरचितं पञ्चपक्षिशाकुनं समाप्तम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चपक्षी/ पञ्च--पक्षी f. N. of sev. works. on astrology

"https://sa.wiktionary.org/w/index.php?title=पञ्चपक्षी&oldid=407470" इत्यस्माद् प्रतिप्राप्तम्