सामग्री पर जाएँ

पञ्चपल्लव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चपल्लवम्, क्ली, (पञ्चानां पल्लवानां समाहारः ।) आम्रादिपत्रपञ्चकम् । यथा, -- “आम्रजम्वूकपित्थानां बीजपूरकविल्वयोः । गन्धकर्म्मणि सर्व्वत्र पत्राणि पञ्चपल्लवम् ॥” इति शब्दचन्द्रिका ॥ वैदिककर्म्मणि घटोपरिदेयपञ्चपल्लवं यथा, -- आम्राश्वत्थवटपर्कटीयज्ञोडुम्बराणि । तान्त्रिक-ः कर्म्मणि पञ्चपल्लवं यथा, -- “पनसाम्रं तथाश्वत्थं वटं वकुलमेव च । पञ्चपल्लवमुक्तञ्च मुनिभिस्तन्त्रवेदिभिः ॥” इति तन्त्रसारः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चपल्लव¦ न॰ पञ्चानां पल्लवानां समाहारः पात्रा॰। वृक्षविशेषपञ्चकपल्लवे तच्च गन्धकर्भणि
“आम्रजम्बूकपित्थानांवीजपूरकविल्वयोः। गन्धकर्मणि सर्वत्र पत्राणि पञ्च-पल्लवम्” शब्दचन्द्रिकोक्तम्। वैदिककर्मणि स्थाप्यघटेदेयन्तु
“अश्वत्थाडुम्बरप्लक्षचूतन्यग्रोधपल्लवाः। पञ्चपल्लव-मित्युक्तं सर्वकर्मणि शोभनम्” ब्रह्मपु॰ उक्तं ग्राह्यम्। तान्त्रिककर्मणि तु
“पनसाम्रं तथाश्वत्थं वटं बकुलमेवच। पञ्चपल्लवमुक्तं च मुनिभिस्तन्त्रबेदिभिः”। तेषांफलविशेषस्तत्र दृश्यः। कर्म॰। पञ्चभङ्गादयोऽप्यत्र ब॰ व॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चपल्लव¦ n. (-वं) The aggregate of five sprouts; vix. of the spondias, rose-apple, Be4l or marmelos, citron, and wood apple. E. पञ्च five, and पल्लव a new shoot.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चपल्लव/ पञ्च--पल्लव n. the aggregate of 5 sprigs or shoots of the आम्र, जम्बू, कपित्थ, बीज-पूरक, and बिल्व(according to others , of the आम्र, अश्वत्थ, वट, पर्कटी, and यज्ञो-दुम्बर; or of the पनस, आम्र, अश्वत्थ, वट, and बकुलL. ; or of the spondias , rose-apple , Bel or marmelos , citron , and wood-apple W. )

"https://sa.wiktionary.org/w/index.php?title=पञ्चपल्लव&oldid=407583" इत्यस्माद् प्रतिप्राप्तम्