पञ्चपल्लवम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चपल्लवम्, क्ली, (पञ्चानां पल्लवानां समाहारः ।) आम्रादिपत्रपञ्चकम् । यथा, -- “आम्रजम्वूकपित्थानां बीजपूरकविल्वयोः । गन्धकर्म्मणि सर्व्वत्र पत्राणि पञ्चपल्लवम् ॥” इति शब्दचन्द्रिका ॥ वैदिककर्म्मणि घटोपरिदेयपञ्चपल्लवं यथा, -- आम्राश्वत्थवटपर्कटीयज्ञोडुम्बराणि । तान्त्रिक-ः कर्म्मणि पञ्चपल्लवं यथा, -- “पनसाम्रं तथाश्वत्थं वटं वकुलमेव च । पञ्चपल्लवमुक्तञ्च मुनिभिस्तन्त्रवेदिभिः ॥” इति तन्त्रसारः ॥
