सामग्री पर जाएँ

पञ्चप्रासाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चप्रासादः, पुं, (प्रसीदन्ति मनांसि अत्र । प्र + सद + अधिकरणे घञ् । “उपसर्गस्य दीर्घत्वं क्विप्घञादौ क्वचिद्भवेत् ।” इति वचनात् दीर्घः । पञ्चचूडान्वितः प्रासादः । मध्यपदलोपिकर्म्मधारयः ।) देवगृहविशेषः । पञ्चरत्न इति ख्यातः । यथा, -- “पक्वेष्टकचितं रम्यं पञ्चप्रासादसंयुतम् । कारयित्वा हरेर्धाम धूतपापो व्रजेद्दिवम् ॥” इत्यग्निपुराणम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चप्रासाद¦ पु॰ पञ्चचूडायुक्तः प्रासादः शा॰ त॰। (पञ्चरत्न)इति ख्याते देवगृहभेदे
“पक्वेष्टकाचितं रम्यं पञ्चप्रासादसंयुतम्। कारयित्वा हरौ चाथ धूतपाषो दिवंव्रजेत्” अग्निपु॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चप्रासाद¦ m. (-दः) A temple with four pinnacles and a steeple. E. पञ्च, and प्रासाद a palace.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चप्रासाद/ पञ्च--प्रासाद m. a temple with 4 pinnacles and a steeple W.

"https://sa.wiktionary.org/w/index.php?title=पञ्चप्रासाद&oldid=407709" इत्यस्माद् प्रतिप्राप्तम्