पञ्चप्रासादः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चप्रासादः, पुं, (प्रसीदन्ति मनांसि अत्र । प्र + सद + अधिकरणे घञ् । “उपसर्गस्य दीर्घत्वं क्विप्घञादौ क्वचिद्भवेत् ।” इति वचनात् दीर्घः । पञ्चचूडान्वितः प्रासादः । मध्यपदलोपिकर्म्मधारयः ।) देवगृहविशेषः । पञ्चरत्न इति ख्यातः । यथा, -- “पक्वेष्टकचितं रम्यं पञ्चप्रासादसंयुतम् । कारयित्वा हरेर्धाम धूतपापो व्रजेद्दिवम् ॥” इत्यग्निपुराणम् ॥
