पञ्चभद्रः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चभद्रः, पुं, (पञ्चसु अङ्गभेदेषु भद्रः शुभः पुष्पितत्वात् ।) पञ्चस्थानेषु पुष्पितोऽश्व- विशेषः । यथा, -- “पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ॥” इति हेमचन्द्रः ॥ पाचनविशेषः । यथा, -- “छिन्नोद्भवापर्पटवारिवाह- भूनिम्बशुण्ठीजनितः कषायः । समीरपित्तज्वरजर्ज्जराणां करोति भद्रं खलु पञ्चभद्रः ॥” इति शार्ङ्गधरः ॥
