पञ्चभूतम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चभूतम्, क्ली, पञ्चानां भूतानां क्षित्यप्तेजोमरु- द्व्योम्नां समाहारः । (केचित्तु संज्ञाप्रयुक्तत्वात् पञ्च च तानि भूतानि चेति कर्म्मधारयसमास- माहुस्तत्र तु एकवचनञ्चिन्तनीयम् ।) अस्योत्पत्तिर्यथा । “अभूत्तस्मादहङ्कारस्त्रिविधः सृष्टिभेदतः । वैकारिकादहङ्काराद्देवा वैकारिका दश ॥ दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः । तैजसादिन्द्रियाण्यासंस्तन्मात्रा क्रमयोगतः । भूतादिकादहङ्कारात् पञ्चभूतानि जज्ञिरे ॥” इति शारदायां प्रथमपटलः ॥ * ॥ “सोऽहङ्कारस्त्रिभेदः स्यात् सत्त्वादिगुणयोगतः । वैकारः सात्त्विको नाम तैजसो राजसः स्मृतः ॥ भूतादिस्तामसस्ते च पृथक्तत्त्वाद्यवासृजन् । वैकारिकाद्दिगाद्याश्च चन्द्रेणैकादश स्मृताः ॥ इन्द्रियाणामधिष्ठातृदेवास्ते परिकीर्त्तिताः । यच्चापरं मनस्तत्त्वं ससङ्कल्पविकल्पकम् ॥ तैजसादेव तज्जातमिन्द्रियाणि तथा दश । भूतादेः पञ्चतन्मात्राण्यासन् भूतमतः परम् ॥” इति राघवभट्टधृतम् ॥ * ॥ “शब्दाद्व्योमस्पर्शतस्तेन वायु- स्ताभ्यां रूपाद्वह्निरेतै रसाच्च । अम्भांस्येतैर्गन्धतो भूर्धराद्या भूताः पञ्च स्युर्गुणोनाः क्रमेण ॥” इति प्रपञ्चसारे प्रथमपटलः ॥ * ॥ “आकाशाज्जायते वायुर्वायोरुत्पद्यते रविः । रवेरुत्पद्यते तोयं तोयादुत्पद्यते मही ॥” (तथा च श्रुतिः । “तस्मादेतस्मादाकाशः सम्भूतः । आकाशाद्वायुः वायोरग्निरग्नेरापोऽद्भ्यः पृथ्वी समजायत ॥” एतच्छ्रु त्यवलम्बनेन मनुनाप्युक्तम् । १ । २० । यथा, -- “आद्याद्यस्य गुणन्त्वेषामवाप्नोति परःपरः । यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः ॥” अत्र कुल्लूकभट्टः । “आद्याद्यस्याकाशादेर्गुणं शब्दादिकं वाय्वादिः परः परः प्राप्नोति । एतदेव स्पष्टयति यो यः इति येषां मध्ये यो यो यावतां पूरणा याव- तिथः वतोरिथुक् स स द्बितीयादिः द्बितीयो द्विगुणः तृतीयस्त्रिगुणः इत्येवमादिर्मन्वादिभिः स्मृतः । एतेनैतदुक्तं भवति । आकाशस्य शब्दो गुणः वायोः शब्दस्पर्शौ तेजसः शब्दस्पर्श- रूपाणि अपां शब्दस्पर्शरूपरसाः भूमेः शब्द- स्पर्शरूपरसगन्धा इति ॥) तस्य लयप्रकारो यथा, -- “मही संलीयते तोये तोयं संलीयते रवौ । रविः संलीयते वायौ वायुर्नभसि लीयते । पञ्चतत्त्वाद्भवेत् सृष्टिस्तत्त्वे तत्त्वं विलीयते ॥” इति ब्रह्मज्ञानतन्त्रनिर्ब्बाणतन्त्रे ॥ * ॥ तदुद्भवास्थ्यादि यथा, -- “अस्थिमांसनखाश्चैव नाडी त्वक् चेति पञ्चमः । पृथ्वीपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥ मलं मूत्रं तथा शुक्रं श्लेष्मा शोणितमेव च । तोयपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥ हासो निद्रा क्षुधा चैव भ्रान्तिरालस्यमेव च । तेजःपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥ धारणं चालनं क्षेपः सङ्कोचः प्रसरस्तथा । वायुपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥ कामक्रोधस्तथा लोभस्त्रपा मोहश्च पश्चमः । नभःपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥” इति ब्रह्मज्ञानतन्त्रे प्रथमपटलः ॥ * ॥ पञ्चभूतनक्षत्राणि यथा, -- “धनिष्ठा रेवती ज्येष्ठानुराधा श्रवणा तथा । अभिजिच्चोत्तराषाढा पृथ्वीतत्त्वमुदाहृतम् ॥ पूर्ब्बाषाढा तथाश्लेषा मूलार्द्रा चैव रोहिणी । उत्तरभाद्रपदा तोयं आपस्तत्त्वन्त्वभीष्टदम् ॥ भरणी कृत्तिका पुष्या मघा पूर्ब्बा च फल्गुनी । पूर्ब्बभाद्रपदा स्वाती तेजस्तत्त्वमिति प्रिये ॥ विशाखोत्तरफल्गुन्यौ हस्ता चित्रा पुनर्व्वसुः । अश्विनी मृगशीर्षा च वायुस्तत्त्वमुदाहृतम् ॥” इति सूक्ष्मस्वरोदयः ॥
