पञ्चमकार
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चमकारम्, क्ली, (पञ्चसंख्यकं मकारं तत्त्वं यत्र । मद्यं मांसमित्यादिषु आदौ मकारस्थितेस्तथात्वम् ।) मकारपञ्चकम् । पञ्चतत्त्वम् । तत्तु मुद्रामैथुन- मद्यमांसमत्स्यरूपम् । यथा, -- “मद्यं मांसं तथा मत्स्यो मुद्रा मैथुनमेव च । पञ्चतत्त्वमिदं देवि ! निर्व्वाणमुक्तिहेतवे । मकारपञ्चकं देवि ! देवानामपि दुर्लभम् ॥” इति गुप्तसाधनतन्त्रे ७ पटलः ॥ * ॥ “मद्यैर्मांसैस्तथा मत्स्यैर्मुद्राभिर्मैथुनैरपि । स्त्रीभिः सार्द्धं महासाधुरर्च्चयेद्जगदम्बिकाम् ॥ अन्यथा च महानिन्दा गीयते पण्डितैः सुरैः । कायेन मनसा वाचा तस्मात्तत्त्वपरो भवेत् ॥” इति कामाख्यातन्त्रे ५ पटलः ॥ * ॥ “या सुरा सर्व्वकार्य्येषु कथिता भुवि मुक्तिदा । तस्या नाम भवेद्देवि ! तीर्थं पानं सुदुर्लभम् ॥ शूद्राणां भक्ष्ययोग्यानां यन्मांसं देवनिर्म्मितम । वेदमन्त्रेण विधिवत् प्रोक्ता सा शुद्धिरुत्तमा ॥ भक्ष्ययोग्याश्च कथिता ये ये मत्स्या वरानने ! । ते रहस्ये मया प्रोक्ता मीनाः सिद्धिप्रदायकाः ॥ पृथुकास्तण्डुला भृष्टा गोधूमचणकादयः । तस्य नाम भवेद्देवि ! मुद्रा मुक्तिप्रदायिनी ॥ भगलिङ्गस्य योगेन मैथुनं यद्भवेत् प्रिये ! । तस्य नाम भवेद्देवि ! पञ्चमं परिकीर्त्तितम् ॥ प्रथमन्तु भवेन्मद्यं मांसञ्चैव द्बितीयकम् । मत्स्यश्चैव तृतीयं स्यान्मुद्रा चैव चतुर्थिका ॥ पञ्चमं पञ्चमं विद्यात् पञ्च ते नामतः स्मृताः ॥” इति समयाचारतन्त्रे २ पटलः ॥ * ॥ अथ मत्स्यादिव्युत्पत्तिः । “मायामलादिशमनान्मोक्षमार्गनिरूपणात् । अष्टदुःखादिविरहान्मत्स्येति परिकीर्त्तितः ॥ माङ्गल्यजननाद्देवि ! सम्बिदानन्ददानतः । सर्व्वदेवप्रियत्वाच्च मांस इत्यभिधीयते ॥ पञ्चमं देवि ! सर्व्वेषु मम प्राणप्रियं भवेत् । पञ्चमेन विना देवि ! चण्डीमन्त्रं कथं जपेत् ॥ यदि पञ्चमकारेषु भ्रान्तिञ्चेत् कुरुते प्रिये ! । तस्य सिद्धिः कथं देवि ! चण्डीमन्त्रं कथं जपेत् ॥ आनन्दं परमं ब्रह्म मकारास्तस्य सूचकाः ॥” इति कुलार्णवतन्त्रे पञ्चमखण्डे १७ उल्लासः ॥ * ॥ तेषां शोधनादिकं बाहुल्यभिया लोकमोह- भयाच्च नोक्तम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चमकार¦ न॰ पञ्च मकारा यत्र। मकारादिपदवेद्यमद्यादिप-ञ्चके
“मद्यं मांसं तथा मत्स्यी मुद्रा मैथुनमेव च। पञ्चत-त्त्वमिदं देवि! निर्वाणमुक्तिहेतवे। मकारपञ्चकं देवि!देवानामपि दुर्लभम्” गुप्रसाधनतन्त्रे
७ पटले। तत्रमद्यादिकं प्रसिद्धम्। मुद्रा तु
“पृथुकास्तण्डुला भृष्टागोधूमचणकादयः। तेषां नाम भवेद्देवि! मुद्रा मुक्ति-प्रदायिनी”। तत्र परिगाषिता
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चमकार¦ n. (-रं) The five essentials of the left hand Tantra ritual; “Madya” wine, “Man4sa” flesh, “Matsya” fish, “Maithuna” copu- lation, “Mudra” gesticulation. E. पञ्च, and मकार the letter M; all beginning with that letter.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चमकार/ पञ्च--म-कार n. the 5 essentials of the left-hand तन्त्रritual (the words for which begin with the letter म्, viz. मद्य, wine ; मांस, meat ; मत्स्य, fish ; मुद्रा, intertwining of the fingers ; and मैथुन, sexual union) W. (See. -तत्त्वand RTL. 192 ).
