पञ्चमहायज्ञ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चमहायज्ञ पुं।
पाठादयः
समानार्थक:पञ्चमहायज्ञ
2।7।14।2।1
पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः। एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामकाः॥
पदार्थ-विभागः : , अपौरुषेयः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चमहायज्ञ¦ पु॰ पञ्चगुणितो महायज्ञः कर्म॰ वा। गृहस्थैःप्रतिदिनं कर्त्तव्ये दैवपैत्रादियज्ञपञ्चके।
“पञ्चसूना गृह-स्थस्य चूल्ली पेषण्युपस्करः। कण्डनी चोदकुम्भश्च तस्यपापस्य शान्तये। पञ्चयज्ञबिधानञ्च मृही नित्यं नहापयेत्। पञ्चयज्ञविधानेन तत् पापं तस्य नश्यति। देवयज्ञो भूतयज्ञः पितृयज्ञस्तथैव च। ब्रह्मयज्ञो नृ-यज्ञश्च पञ्चयज्ञाः प्रकीर्त्तिताः। होमो दैवोवलिर्भौतःपित्र्यः पिण्डक्रिया स्मृतः। स्वाध्यायो ब्रह्मयज्ञश्चनृयज्ञोऽतिथिपूजनम्” शङ्खसं॰। पञ्चमहासत्रादयोऽप्यत्र[Page4190-a+ 38]
“देवभूतपितृब्रह्ममनुष्याणामनुक्रमात्। महासत्राणिजानीयात् एते चेह महामखाः। अध्यापनं ब्रह्मयज्ञःपितृयज्ञस्तु तर्पणम्। होमो दैवो वलिर्भोतो नृयज्ञो-ऽतिथिपूजनम्। श्राद्धं वा पितृयज्ञः स्यात् पित्र्योवलिरथापि वा। यश्च श्रुतिजपः प्रोक्तो ब्रह्मयज्ञःस उच्यते। स चार्वाक् तर्पणात् कार्य्यः पश्चाद्वा प्रातराहुतेः। वैश्वदेवावसाने वा नान्यत्रर्त्तुनिमित्तकात्। अप्येकमाशयेद्विप्रं पितृयज्ञार्थसिद्धये। अदैवं नास्तिचेदन्यो भोक्ता भोज्यमथापि वा। अप्युद्धृत्य यथाशक्त्याकिञ्चिदन्नं यथाविधि। पितृभ्योऽथ मनुष्येभ्यो दद्या-दहरहर्द्विजे। पितृभ्य इदमित्युक्त्वा स्वधाकारमुदी-रयेत्। हन्तकारं मनुष्येभ्यस्तदूर्द्धं निनयेदपः” कात्या॰ स॰
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चमहायज्ञ¦ m. plu. (-ज्ञाः) The five great sacraments of the Hindus, or the worship of spirits, progenitors, gods, Ve4das, and man- kind, by offerings of perfumes and flowers, obsequial rites, oblations with fire, the study of the Ve4das, and hospitality. E. पञ्च five, महा great, and यज्ञ sacrifice.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चमहायज्ञ/ पञ्च--महायज्ञ m. pl. the 5 great devotional acts of the Hindus(See. महा-य्) W.