सामग्री पर जाएँ

पञ्चमहायज्ञाः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चमहायज्ञाः, पुं, (पञ्चविधा महायज्ञाः ।) गृहस्थकर्त्तव्यपञ्चप्रकारनित्यकर्म्माणि । यथा, -- “पाठो होमश्चातिथीनां सपर्य्या तर्पणं वलिः । एतैः पञ्च महायज्ञा ब्रह्मयज्ञादिनामकैः ॥” इत्यमरः । २ । ७ । १४ ॥ (तथा च मनुः । ३ । ६८-७० । “पञ्चसूना गृहस्थस्य चूल्लीपेषण्युपस्करः । कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन् ॥ तासां क्रमेण सर्व्वासां निष्कृत्यर्थं महात्मभिः । पञ्चकॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो वलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पञ्चमहायज्ञाः&oldid=146102" इत्यस्माद् प्रतिप्राप्तम्