सामग्री पर जाएँ

पञ्चमीव्रतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चमीव्रतम्, क्ली, (पञ्चम्यां माघशुक्लपञ्चमीमारभ्य षड्वर्षं यावत् प्रतिमासीयशुक्लपञ्चम्यां स्त्रिया तस्याः श्रीर्निश्चला गेहे सत्यं सत्यं हि नारद ! ॥ यथेन्द्राणी महेन्द्रस्य लक्ष्मीर्लक्ष्मीपतेर्यथा । शङ्करस्य यथा गौरी सापि भर्त्तुर्भवेत्तथा ॥ या पञ्चमीव्रतं कुर्य्यात् सा भवेच्च पतिव्रता । यथोक्तविधिना या तु कुर्व्वीत व्रतमुत्तमम् ॥ पुत्त्रपौत्त्रधनैश्वर्य्यं पञ्चमीकरणादपि । एतत्ते कथितं सर्व्वं तत्त्वं कमललोचन ! ॥ नारद उवाच । केनापि कथितं पूर्ब्बं कृतं केनापि वा पुनः । प्राप्तं कुत्र त्वया देवि ! श्रोतुमिच्छामि तद्बद ॥ श्रीरुवाच । माघे मासि सिते पक्षे पञ्चम्याञ्च महामुने ! । निशावसानसमये चन्द्रभागां महानदीम् ॥ हंससङ्घैः समाकीर्णां नलिनीपुलिनोज्ज्वलाम् । तत्र गौरी शची मेधा सावित्री चोर्व्वशी परा ॥ नारायणं समारोप्य कुर्व्वन्ति व्रतमुत्तमम् । काम्यव्रतमिदं पद्मे ! लभते फलमुत्तमम् ॥ हर्षवतीञ्च तां वीक्ष्य प्रोवाच कमलालया । पुष्पञ्च देहि मे धूपं दीपं नैवेद्यडल्लकम् ॥ मया तव प्रसादेन क्रियते व्रतमुत्तमम् । ततस्तासां फलैः पुष्पैर्नैवेद्यैश्च व्रतं कृतम् ॥ ततस्तासां प्रसादेन वल्लभाहं जनार्द्दन ! । त्वयि देव जगन्नाथ ! नरनारीगणेन च ॥ भक्त्या मया ते कथितं मर्त्यलोके प्रकाशितम् । या करोति व्रतं ह्येतत् यथाविधिविधानतः ॥ इह लोके सुखं भुक्त्वा नारायणपुरं व्रजेत् । श्रुत्वा व्रतस्य माहात्म्यं व्रतमेतत् चरन्ति याः ॥ न किञ्चिद्दुष्कृतं लोके तासां सत्यं वदाम्यहम् । हरन्ति तासां पापानि याश्च शृण्वन्त्यहर्निशम् ॥ नारायणं नमस्कृत्य प्रपूज्य च विसर्ज्जयेत् ॥” इति भविष्यपुराणोक्ता षट्पञ्चमीव्रतकथा समाप्ता ॥

"https://sa.wiktionary.org/w/index.php?title=पञ्चमीव्रतम्&oldid=146109" इत्यस्माद् प्रतिप्राप्तम्